SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ कटकपाटादेः प्रापश्चाप्यसन्देशे इलामतिलेखे चाममा AASACREACT आवश्यकाकृतौ गुरुः । वन्दनेऽप्येवमेव स्यात्प्रायश्चित्तमभेदतः ॥ १३९॥ सजीवोदकपाने च सुखं पापविघातनम् । नैषेधिक्यादिकरणे उत्तरासगवर्जने ॥ १४०॥ दण्डस्याप्रतिलेखे चाप्रमार्जितविमोचने । ग्रहणे मा. र्जितस्यापि सर्वोपकरणस्य च ॥ १४१ ॥ उपाधेश्चाप्यसन्देशे शयनासनयोरपि । अमार्जने तथा पाण्योर्वसतेरप्रमार्जने ॥१४२॥ तथा कटकपाटादेः पिधानाच्छादयोरपि । विनैव प्रतिलेखेन तथा चोभयकालयोः॥१४३।। भाण्डाद्यप्रतिलेखे च संपुटीपट्टयोरपि । नित्यमप्रतिलेखाच पादोनप्रहरे तथा ॥ १४४ ॥ पात्राद्यप्रतिलेखे च सर्वेष्वेतेषु निर्मदः । एवं च जीतकल्पस्य व्यवहारेण भाषितम् ॥१४५॥ प्रायश्चित्तं यतः सर्व श्राद्धानामथ कथ्यते । पापप्रणाशनं सर्व आलोचनसमुच्चयः ॥१४६॥” इति लघुजीतकल्पविधिना यतिप्रायश्चित्तं संपूर्ण ॥ अथ व्यवहारजीतकल्पक्रमेण यतिश्रावकप्रायश्चित्तविधिः ॥ "ज्ञानाचारे श्रावकाणां प्रायश्चित्तमुदीर्यते । अकालाविनयाद्येषु ज्ञानभङ्गेषु चाष्टसु ॥१॥ प्रत्येकं शुद्धये तेषु प्राणाधार उदीरितः । ज्ञानिनां प्रत्यनीकत्वे ज्ञानस्य च सुभोजनम् ॥२॥ पाठव्याख्यानयोर्विघ्नकरणे पाद इष्यते । पातने पुस्तकादीनां कक्षाया धारणे तथा ॥३॥ दुर्गन्धहस्तोद्बहने पादनिष्पूतघटने । एषु प्रत्येकमाख्येयं शोधनं धातुहृत्परम् ॥ ४॥ जघन्याशात-5 नायां तु ज्ञानस्यैव विलम्बकः । मध्यायां परमश्चैव प्रकृष्टायां द्विपादकम् ॥५॥ केचिदत्र गुरुं प्राहुर्विशेषादागमस्य च । आशातनायामाचाम्लं तत्सूत्रस्य पुनर्गुरुः ॥६॥ तथा च दर्शनाचारे शङ्कादिषु च पञ्चसु । देशा-1 कान्तेषु प्रत्येकं कामघ्नं शुद्धये दिशेत् ॥ ७॥ कृतेषु सर्वतस्तेषु निःपापात्पापशोधनम् । असंयमस्थिरीकामे Jain Education Internat For Private & Personal Use Only P w.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy