________________
स्थाद्गुच्छकः पात्रकेसरी। पात्रस्य स्थापनं चैव मुखवस्त्रं चतुर्थकम् ॥ १०७॥ मध्यमश्वोपधिः प्रोक्तः पटलाः पात्रबन्धनम् । रजोहृतिश्चोलपट्टो रजस्त्राणं च मात्रकम् ॥ १०८॥ उत्कृष्टश्चोपधिः पात्रं द्वौ कल्पौ सूत्रसंभवी। एक ऊर्णामयश्चैवमुपधेः कल्पनां विदुः॥ १०९ ॥ सर्वोपधौ च वर्षासु धौते ग्राह्यं विशुद्धये । अदत्ते गुरुणा भुक्त दत्तेऽन्येभ्यः सुखं वदेत् ॥ ११० ॥ मुखवस्त्रेप्यसंघद्दे तथा धर्मध्वजेपि च । शुद्धये विरसः कैश्चिदनाहार उदाहृतः ॥१११ ॥ अलब्धेऽप्यथ लब्धे वा हारिते मुखवाससि । उपवासः परं शुद्ध्यै सूरिभिः समुदाहृतः ॥ ११२॥ धर्मध्वजे हारिते च न प्राप्ते सुखमिष्यते । धर्मध्वजाननसिचोरेवं तप उदीरितम् ॥ ११३ ॥ नष्टयोश्च द्वयोः प्राप्तौ निःपापः शुद्धिहेतवे । अप्राप्तौ च द्वयोः कार्य पुण्यमेव मनीषिभिः ॥ ११४ ॥ मुखवस्त्राप्रतिलेखे यतिकर्म समाचरेत् । धर्मध्वजाप्रतिलेखे पितृकालो विशोधनम् ॥ ११५ ॥ अकृते घस्रचरमप्रत्याख्याने |च निर्मदम् । प्रत्याख्याने पानसत्के संख्यास्वाध्यायजेऽथवा ॥ ११६ ॥ प्रत्याख्यानेप्यरचिते सुभोजनमपापकृत् । चतुर्विधाहारजे च प्रत्याख्यानेप्यनिर्मिते ॥ ११७॥ सन्ध्यायां च विभाते च प्रत्याख्यानाद्यनुद्यमे । कृतस्यापि हि भङ्गे च पितृकालो विशुद्धिकृत् ॥ ११८ ॥ स्थण्डिलाप्रतिलेखे च यतिकर्मविशुद्धये । स्थण्डिलेऽन्यप्रतिलेखिते मलोत्सर्गतो निशि ॥ ११९॥ गुरु सर्वपात्रभने सजलं शोधनं परम् । सूचीनिर्गमने मुक्तं प्राहुः केचित्तथान्तिमम् ॥ १२०॥ कपाटं वा कटं वा प्रतिलिख्योद्घाटनाल्लघु । षट्पदीगाढसंघ प्राणाधारो विशोधनः ॥ १२१ ॥ कालस्याप्रतिक्रमणे गोचरस्याप्रतिक्रमे । नैषेधिक्याद्यकरणे यतिकर्म समादिशेत् ॥१२२॥
SARSHREE
Jan Education Interne
For Private &Personal use Only
Kiwww.jainelibrary.org