________________
Jain Education Internat
॥ ७४ ॥ मध्यभङ्गे तथैकान्नं मुक्तमुत्कृष्टभङ्गके । दर्पाद्भङ्गे त्रयाणां च शोधने ग्राह्यमिष्यते ॥ ७५ ॥ स्वप्ने भने त्रयाणां च कायोत्सर्गा उदाहृताः । चतुःप्रमाणैः प्रत्येकं सचतुर्विंशतिस्तवैः ॥ ७६ ॥ मैथुनस्य काङ्क्षणे स्याच्छुद्धिः स्यादुत्तमात्परा । कृते च करसंभोगे सुखं शोधनमुत्तमम् ॥ ७७ ॥ तस्मिंश्च बहुधा कृप्ते कार्यमादेयमञ्जसा । स्त्रिया चैव तिरश्वा वा षण्ढेन पुरुषेण वा ॥ ७८ ॥ मैथुने भाषिते कॢप्ते प्रत्येकं मूलमिष्यते । स्त्रीणां स्तनादिस्पर्शे च विधेयं धातुहृत्परम् ॥ ७९ ॥ वस्त्रस्पर्शे च नारीणां यतिधर्ममुदाहरेत् । कैश्चिदष्टोत्तरशतं मन्त्रजाप इह स्मृतः ॥ ८० ॥ दर्पेण ब्रह्मचर्यस्य भङ्गे ग्राह्यमुदाहृतम् । खप्नेऽपि व्रत भङ्गेऽत्र कायोत्सर्ग समाचरेत् ॥ ८१ ॥ समन्त्रयुक्तसंध्यातः सचतुर्विंशतिस्तवम् । लिप्सपात्रस्थापने च शुष्कसन्निधिभोजने ॥ ८२ ॥ प्रत्येकमुपवासेन | शुद्धिरस्मादुदाहृता । दोरके मुखवस्त्रे वा पात्रे तृप्तिकरादिके ॥ ८३ ॥ निशि लिप्तस्थिते कार्यमुपवासेन शोधनम् । वैकृते सन्निधौ भुक्ते पुण्यमाहुर्विशोधनम् ॥ ८४ ॥ दिवा स्थितं दिवा भुक्तमिति भङ्गचतुष्टयम् । आये भङ्गं सुखं प्रोक्तं शेषभङ्गत्रयेऽष्टमम् ॥ ८५ ॥ शुष्कसन्निधिरक्षायां मध्याह्नः स्याद्विशोधनम् । तस्मिन्नार्द्रे स्थापिते च निःपापात्स्यादपापता ॥ ८६ ॥ केचिदाहुः शुद्धयेऽत्र पूर्वाह्णं मुनिपुङ्गवाः । आधाकर्माशने मुक्तं शान्तं पूत्यशने तथा ॥ ८७ ॥ आत्मक्रीतपरक्रीतभागे कामन्नमिष्यते । उद्देशिकाशने शीतं शेषेषु गुरुरिष्यते ॥ ८८ ॥ अचिरस्थापना भोगे निः स्नेहः शोधनं परम् । चिरस्थापनभोगे तु कालातिक्रम उच्यते ॥ ८९ ॥ सूक्ष्मप्राभृतिकाभोगे यतिकर्म विशोधनम् । बादरप्राभृते भुक्ते चतुःपादो विशोधनः ॥ ९० ॥ पृथिव्या रूषिते भुक्ते निर्मदं
For Private & Personal Use Only
www.jainelibrary.org