________________
आ. दि. ४३
Jain Education Inter
गाढसंतापने शीतं मारणे चोत्तमं विदुः ॥ ११ ॥ पञ्चेन्द्रियाणां संघट्टे पादमल्पे च तापने । शीतसंतापने गाढे निःपापः परिकीर्तितः ॥ १२ ॥ मारणे पुण्यमाख्यातमेष आद्यव्रते विधिः । स्थूले चैव मृषावादे हीने मध्ये तथाधिके ॥ १३ ॥ यतिस्वभावः सजलं निःपापश्च क्रमात्स्मृतः । एवं चौर्यव्रते ज्ञेयं प्रायश्चित्तमसत्यवत् ॥ १४ ॥ प्रायश्चित्तमथाख्येयं श्रद्धानां मैथुनवते । गृहीते नियमे स्वस्य कलत्रस्यापि संगमात् ॥ १५ ॥ उपवासव्रतं | प्राहुः प्रायश्चित्तं विचक्षणाः । वेश्यायाः संगमादेव शुद्धिर्भद्र उदाहृता ॥ १६ ॥ हीनजातिपरस्त्रीणामज्ञानाद्रवे (?) थवा । आदेयं परमं प्राहुः प्रायश्चित्तं मुनीश्वराः ॥ १७ ॥ विशुडकुलवध्वाश्च भोगे मूलं यथोदितम् । ग्राह्यं च नरसंभोगे मुक्तं मैथुनचिन्तने ॥ १८ ॥ सुन्दरं निविडे रागे प्रायश्चित्तमुदीरितम् । स्थूले परिग्रहे हीने मध्यमे परमे तथा ॥ १९ ॥ यतिखभावं कामनं चतुःपादं क्रमाद्विदुः । दिग्वतस्यातिक्रमे तु शर्वरीभोजने तथा ॥ २० ॥ पातकस्य प्रशमनं विदुः प्रशमनं परम् । मांसाशने मद्यपाने ग्राह्यं पातकघातनम् ॥२१॥ अनन्तकाये भुक्ते तु निःपापं पापनाशनम् । त्यक्तप्रत्येक भोगेषु शीतमाहुर्मनीषिणः ॥ २२ ॥ कर्मादानेषु सर्वेषु कृतेषु कथितं सुखम् । अनर्थदण्डेनाहारः प्रोक्ते सामायिके कृते ॥ २३ ॥ देशावकाशिके भग्ने पौषधे भग्न एव च । अतिधीनामनचयां क्रमात्तप उदीर्यते ॥ २४ ॥ आनाहारश्च कामनं कामनं मुक्त एव च । प्रायश्चितमिदं प्रोक्तं व्रतेषु द्वादशखपि ।। २५ ।। अयमेव श्राविकाणां प्रायश्चित्तविधिः स्मृतः । विशेषः कोपि तासां तु पुनरेव प्रकीर्त्यते ॥ २६ ॥ सामायिकव्रतस्थायाः स्थितायाः पौषधेऽथवा । नृसंघद्वे मन्त्रजापः पञ्चविंशतिसं
For Private & Personal Use Only
www.jainelibrary.org