________________
वर्तमानो निरन्तरम् । स लिङ्गक्षेत्रकालाचैरनवस्थाप्य एव हि ॥२॥लिङ्गेन येन दुष्कर्म कृतं तदपनीयते । यैव्यैर्विहितं पापं भावस्तेषां च वर्जयेत् ॥३॥ भावलिङ्गं समादाय स्थाप्यं क्षेत्रेप्यदूषणे । यावत्कालं पापकर्म कृतं तावत्तपोऽधिकम् ॥ ४॥ विधेयं पापहीनत्वे मासषट्कं समासतः । परमेष्ठयाशातनायां वर्षमेक तथा तपः ॥५॥ वर्ष द्वादश वर्षाणि तत्पापस्यानुसारतः । भवेदुज्झितभिक्षावान्स्तोकोपकरणान्वितः ॥६॥ अथवा सर्वमुपधिं त्यजेत्पाणिपरिग्रहः । वन्दते वन्द्यतो नैव परिहारं दिने दिने ॥७॥ कुर्वीताहारमध्येपि किंचित्किंचिन्मनागपि । संवासो यतिभिः सार्ध श्राद्धैर्वा तस्य कल्पते ॥८॥ नालापस्तैः समं कापि मुक्त्वाहत्प्रमुखस्तवम् । प्रायश्चित्तमनावृत्तं प्राहुरेतत्कृतागमाः॥९॥” इति अनावृत्तप्रायश्चित्तं संपूर्णम् ॥ ॥ अथ | पाराश्चिकं प्रायश्चित्तं यथा-"अर्हन्तमागमं सूरि श्रुतशं गणनायकम् । गुणिनं बहुदर्पण क्रोधेनाशातयन्सदा ॥१॥ स्खलिङ्गे परलिङ्गे च दुष्टो बहुकषायवान् । अत्यन्तविषयासक्तो गुरोराज्ञादिघातकः ॥२॥ अवध्यवधकारी च राजगुर्वङ्गनारतः। प्रकाशदुष्टकर्मा च स्त्यानद्ध्या च पुरस्कृतः॥३॥ अनङ्गसेवानिरतः कुस्थानककृतादरः । सप्तव्यसनसंसक्तः परद्रव्यग्रहोद्यतः॥४॥ परद्रोहकरो नित्यं पिशुनत्वकृतादरः । पराञ्चिपातकस्यास्य प्रायश्चित्तं तथाविधं ॥५॥सलिङ्गोत्क्षेत्रतो वापि कालादाचारतस्तथा । वसतेश्च निवासाच वाटकाइन्दतस्तथा ॥६॥ पुरावामाच्च देशाच कुलात्संघागणादपि । स बहिः क्रियते तस्य प्रवेशं कापि नापयेत
१ पालाधैरिति पाठः।
Jan Education Internat
For Private & Personal Use Only
A
w.jainelibrary.org