________________
Jain Education Inte
धिकमुदीरयेत् । तथा च निर्जले रूक्षे न्यूनमाहुर्मनीषिणः ॥ ७८ ॥ वर्षासु शिशिरे चापि प्रभितं धैर्यदुष्करौ । पूर्वार्धाचाम्लपुण्यान्तमुष्णकाले विनिर्दिशेत् ॥ ७९ ॥ तस्मिन्नवविधं दृष्ट्वा तपोयोजनमागमे । विदधीत परं काले विभागं तपसां तथा ॥ ८० ॥ ॥ भावे यथा - "दृष्टस्य प्रचुरं तीव्रं तपो दद्यादशङ्कितम् । स्तोकं ग्लानस्य सुकरमथ कालं विलङ्घयेत् ॥ ८१ ॥” ॥ पुरुषप्रति सेवनायां यथा - " अगीतार्थाश्च गीतार्था अक्षमाश्च क्षमा अपि । अशठाश्च शठाश्चैव दुष्टाः सन्तस्तथाविधाः ॥ ८२ ॥ परिणामाश्च वस्तूनां हीनमध्याधिकाः पुनः । कायशक्तिः खतञ्चापि मध्या हीनाधिका नृणाम् ॥ ८३ ॥ निर्मन्तवो मन्तुमन्तः स्युः केचित्खल्पमन्तवः । शल्यस्थिता दयाश्च चत्वारः पूर्वभाषिताः ॥ ८४ ॥ सापेक्षेतरमन्दाश्च पुरुषा ये प्रकीर्तिताः । यः शक्तिष्टतिकल्पस्थस्तथा सर्वगुणैर्युतः ॥ ८५ ॥ अधिकं च तपःकर्म तस्य देयं विचक्षणैः । तथा हीनगुणस्यापि हीनं | देयं तथाविधम् ॥ ८६ ॥ अत्यन्तहीनस्य पुनस्तपस्त्यागं विनिर्दिशेत् । ये च पालितचारित्रा अज्ञातार्थास्तथाऽसहः ॥ ८७ ॥ तेषां च प्रतिमं देयं विरसादिविभाजितम् । यदेतच तपःकर्म प्रायश्चित्ते पुरोदितम् ॥ ८८ ॥ एतत्प्रमादयुक्तस्य सर्व देयं मनीषिभिः । दर्पमुक्तस्य च स्थानान्तरं किंचिद्विशेषतः ॥ ८९ ॥ आवृत्तिभाजः किंचिचाधिकं किंचिच दर्पवत् । प्रतिक्रमणमाख्येयं कल्पे तदुभयं च वा ॥ ९० ॥ प्रमादोऽनवधानत्वं दर्परूपबलादिकः । आवृत्तिकार्यकाङ्क्षित्वं कल्प आचारसंश्रयः ॥ ९९ ॥ एतासु कर्मबन्धः स्यात्सेवनासु चतसृषु । पूर्वोक्तविधिना देयं प्रायश्चित्तं च ताखपि ॥ ९२ ॥ आलोचनायाः कालं च ज्ञात्वा क्लेशाद्विशुद्धितः । हीना
For Private & Personal Use Only
www.jainelibrary.org