________________
आचार
दिनकरः
॥ १४३ ॥
Jain Education Interna
| जन्मनक्षत्राणि जन्मराशयः कथ्यन्ते यथा - "वैश्वी १ ब्राह्मी २ मृगाः ३ पुनर्वसु ४ मघा ५ चित्रा ६ वि शाखा ७ स्तथा राधा ८ मूल ९ जलर्क्ष १० विष्णु १९ वरुणक्ष १२ भाद्रपादोत्तरा १३ । पौष्णं १४ पुष्य १५ यमर्क्ष १६ दाहनयुताः १७ पौष्णा १८ श्विनी १९ वैष्णवा २० दात्री २१ वा २२ विशाखिका २३ र्यम२४ युता जन्मक्षमालाईताम् ॥ १ ॥ चापो १ गौर्मिथुनद्वयं ४ मृगपतिः ५ कन्या ६ तुला ७ वृश्चिका ८ चाप९ श्राप १० मृगास्य ११ कुम्भ १२ शफरा १३ मत्स्यः १४ कुलीरो १५ हुडूः १६ । गौ १७ मनो १८ हुड १९ | रेणवक्त्र २० हुडका २१ कन्या २२ तुला २३ कन्यका २४ विज्ञेयाः क्रमतोर्हतां मुनिजनैः सूत्रोदिता राशयः ॥ २ ॥ एतद्राश्यनुमानेन नाम येनार्हतां समम् । युज्यते कारकस्यास्य बिम्बं कार्यं तदर्हतः ॥ ३ ॥ विम्बं मणिमयं चन्द्रसूर्यकान्तमणीमयम् । सर्वे समगुणं ज्ञेयं सर्वाभी रत्नजातिभिः ॥ ४ ॥ स्वर्णरूप्यताम्रमयं वाच्यं धातुमयं परम् । कांस्यसीसवङ्गमयं कदाचिन्नैव कारयेत् ॥ ५ ॥ तत्र धातुमये रीतिमयमाद्रियते कचित् । निषिद्धो मिश्रधातुः स्याद्रीतिः कैश्चिञ्च गृह्यते ॥ ६ ॥ कार्यों दारुमयश्चैत्ये श्रीपर्ण्य चन्दनेन वा । विल्वेन वा कदम्बेन रक्तचन्दनदारुणा || ७ || पियालोदुम्बराभ्यां वा कचिच्छिशिमयापि वा । अन्यदारूणि सर्वाणि बिम्बकार्ये विवर्जयेत् ॥ ८ ॥ अशुभस्थाननिष्पन्नं सन्त्रासं मशकान्वितम् । सशिरं चैव पाषाणं बिम्बार्थे न समानयेत् ॥ ९ ॥ नीरोगं सुदृढं शुभ्रं हारिद्रं रक्तमेव वा। कृष्णं हरिं च पाषाणं विम्बकार्ये नियोजयेत् ॥१०॥ भूमावपतितगोमयमथ मृत्स्ना पूतभूमिसंभूता । लेप्यमयविम्बकार्ये वर्णा विविधा गवेष्यन्ते ॥ ११ ॥ तन्मध्ये
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
॥ १४३ ॥
www.jainelibrary.org