________________
Jain Education Intern
च सुभोजनम् ॥ ४७ ॥ एतत्रयस्याकरणे कामनं प्राहुरादिमाः । गृहीते शोषिते चैव [सु]धौते चोपमण्डले ॥ ४८ ॥ दाने भोगे तथाऽदाने क्रमात्तप उदीरितम् । प्राणाधारश्च कामम्नः पथ्यः पापहरः स्मृतः ॥ ४९ ॥ सर्वेषां चैव करणे पुण्यं प्राहुर्मुनीश्वराः । पतने मुखवस्त्रस्य तथा धर्मध्वजस्य च ॥ ५० ॥ विरमश्च तथा पथ्यो नाशे पथ्यो हितस्तयोः । अनाध्याने च कालस्य परिभोगे च विस्मृते ॥ ५१ ॥ आद्ये निःस्नेहमादिष्टं द्वितीये धर्म एव च । अविधेरशनादीनां कालातिक्रम इष्यते ॥ ५२ ॥ असंवृतौ च प्राणस्य त्रिभूम्यप्रतिलेखने। निमंदं कथयन्तीह सर्वस्यासंवृतावथ ॥ ५३ ॥ अनादाने तथा भङ्गे कालातिक्रममादिशेत् । तपसां प्रतिमानां चाभिग्रहाणां समानतः ॥ ५४ ॥ पक्षे चैव चतुर्मासे वत्सरे चाप्रतिक्रमे । क्रमात्रिपादकामघ्नचतुः पादाः प्रकीर्तिताः ॥ ५५ ॥ कायोत्सर्गे वन्दने च तथा शक्रस्तवेपि च । उत्सारिते वेगकृते भने ज्ञेयं क्रमात्तपः ॥ ५६ ॥ पूतमध्याह्नपादाख्यं सर्वेषु सजलं पुनः । चरित्राचार आख्यातं प्रायश्चित्तं तपोमयम् ॥ ५७ ॥" ॥ ॥ अथ तप आचारे तपः प्रायश्चित्तं यथा - " संजाते तु तपःस्नाने लघ्वम्लपरमाकृतौ । तद्भङ्गे चापरः कार्यो दिवा चाप्रति| लेखिते ॥ ५८ ॥ व्युत्सृष्टे निशि मूत्रादौ वासरे शयनेपि च । क्रोधे च दीर्घे भीते च सुरभिद्रव्यसेवने ॥ ५९ ॥ अशने चाssसवादीनां कालातिक्रममादिशेत् । ज्ञातिबन्धनभेदार्थे निवासात्खजनालये ॥ ६० ॥ निस्नेहः | शेषलोकानामालये च विलम्बकः । एवं च तपआचारे प्रायश्चित्तं विनिर्दिशेत् ॥ ६१ ॥ ॥ ॥ अथ वीर्याति - चारे खण्डिते तपः प्रायश्चित्तं यथा - "निवेशाच्च प्रमादौघादासने प्रतिलेखिते । तत्कार्य यत्र सवधे प्रायश्चि
|
For Private & Personal Use Only
www.jainelibrary.org