________________
आचारदिनकरः
॥ २४४ ॥
Jain Education Intern
44:40-67
॥ ३ ॥ उद्देशवाचनाद्येषु प्राप्ताप्राप्तेषु कर्हिचित् । अविसर्जनतः काले मण्डल्या अप्रमार्जनात् ॥ ४ ॥ सर्वेषु निर्महोऽमीषु गुरुरक्षासनाशनात् । अनागाढे तथा गाढे भन्ने किंचिच सर्वथा ॥ ५ ॥ तत्तयागे सक्रिये च | भग्ने किंचिच्च सर्वथा । क्रमात्पथ्यं तथा पुण्यं सजलं पथ्यमेव च ॥ ६ ॥” इति ज्ञानातिचारतपः ॥ | दर्शनातिचारे निःशङ्कितादिलङ्घने यथा - " शङ्काद्येष्वतिचारेषु चतुः पादतपो भवेत् । मिथ्योपबृंहणाज्ज्ञेयं प्रायश्चित्तं क्रमादिदम् ॥ ७ ॥ विलम्बः सर्वसाधूनां साध्वीनां च सुभोजनम् । सजलं श्रावकाणां चाश्रावि- ४ काणां गुरुस्तथा ॥ ८ ॥ साध्वादीनां चतुर्णां च मिथ्याशास्त्राभिभाषणात् । विरसश्च विलम्बश्च प्राणाधारो द्विपादकः ॥ ९ ॥ यतेस्तु दर्शनाचारे परिवारादिपालने । व्रतसाधर्मिकार्थे च प्रायश्चित्तं न किंचन ॥ १० ॥" इति दर्शनाचारप्रायश्चित्तम् ॥ ॥ अथ चारित्राचारप्रणिधानयोगादिलङ्घने प्रायश्चित्तं यथा - " एकेन्द्रियाणां संघट्टे तथा तत्परितापने । महासंतापने चैव तथोत्थापनमेव च ॥ ११ ॥ आद्ये विरसमाख्यातं द्वितीये च विलम्बकम् । प्राणाधारस्तृतीये च चतुर्थे सजलं भवेत् ॥ १२ ॥ विकालाख्यानन्तकायानां संघट्टेऽल्पतापने । महासंतापने चैव तथोत्थापन एव च ॥ १३ ॥ प्रथमे पितृकालश्च द्वितीये विरसस्तथा । तृतीये चैककामनश्च तुर्थे धर्म एव च ॥ १४ ॥ पञ्चेन्द्रियाणां संघट्टे तथेषत्परितापने । अत्यन्ततापने चैव स्थानादुत्थापने क्रमात् ॥ १५ ॥ यतिस्वभावः प्रथमे द्वितीये धातुकृत्पुनः । तृतीये पथ्य उद्दिष्टश्चतुर्थे भद्र एव च ॥ १६ ॥ मृषावादव्रते नूनमदत्तादान एव च । द्रव्यक्षेत्रकालभावैर्भने हीनाधिकोत्तमे ॥ १७ ॥ कार्य क्रमादेकभक्तं कामनमुक्त
1
For Private & Personal Use Only
विभागः २ प्रायश्चि॥ अथ 2 ताधिकारः
॥ २४४ ॥
www.jainelibrary.org