________________
Jain Education Int
पूर्यते गतसंशयम् ६ ॥ १० ॥ सप्तषष्टियुतायाश्च षट्शत्या ६६७ मन्त्रपाठतः । पञ्श्चयुक्तदशसंख्यमत्रयुक्त प्रयोगतः ॥ ११ ॥ अष्टकादेव पौरुष्याः पूर्वार्धे सार्वपञ्चकात् । सार्धं त्र्यापराह्णाच्च द्वया शतत्र्यादपि ॥ १२ ॥ साद्वैकभक्ताज्जायेत तपो नैर्वृतिकाभिधम् । मन्त्रपाठसहस्राच १००० सार्धद्वाविंशतेरपि ॥ १३ ॥ मन्त्रयुक्ता द्वादशकात्पौरुषीणामतिक्रमात् । पूर्वार्धाष्टकतञ्चापि पञ्चकादापराह्निकात् ॥ १४ ॥ चतुर्द्वयासनादेवमेकभक्तद्वयादपि । सार्धनैर्विकृता ज्ञेयमाचाम्लं परिपूरितम् ॥ १५ ॥ सहस्रद्वय २००० मन्त्राच्च तथा मन्त्रयुतादपि । पञ्चचत्वारिंशतस्तु पौरुष्या जिनसंख्यया ॥ १६ ॥ पूर्वार्धानां षोडशकाद्दशकादापराह्निकात् । द्वयासनाष्टकाच्चैव एकभक्तचतुष्टयात् ॥ १७ ॥ त्रयान्नैर्वृकृतानां च तथा चाम्लद्वयादपि । उपवासव्रतं पूर्णमेकं तद्दिवसे कृतम् ॥ १८ ॥ लघुव्रतैर्यथा पूर्ण संजायेत गुरुव्रतम् । तथा गुरुव्रतेनापि पूर्णानि स्युर्लघून्यपि ॥ १९ ॥ व्रतादीनां परावर्तः प्रायश्चित्तोपधानयोः । अशक्तानां खण्डलघु क्रियते हि गुरुव्रतम् ॥ २० ॥ शक्तानां लघुसं + मील्य नीयते [च] गुरुव्रतम् । तपः कार्येषु चान्येषु यद्यथा तत्तथा व्रतम् ॥ २१ ॥” इति तपोह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ ज्ञानातिचारेषु प्रायश्चित्तकरणं काल १ विनय २ बहुमानो ३ पधान ४ निह्नव ५ व्यञ्जना ६ र्थ तदुभयातिक्रमादष्टविधोऽतिचारस्तत्र प्रायश्चित्तं यथा - " उद्देशेऽध्ययने चैव श्रुतस्कन्धे तथाङ्गके । अनागाढेषु चैत्येषु प्रायश्चित्तं क्रमाद्भवेत् ॥ १ ॥ विरसः पितृकालश्च प्राणाधारो द्विपादकः । अगाढेषु तथैतेषु प्रायचित्तं क्रमाद्भवेत् ॥ २ ॥ कालातिक्रमणं पाद आचाम्लं धर्म एव च । सूत्रार्थभङ्गे सामान्ये कामनमुक्तमेव च
For Private & Personal Use Only
www.jainelibrary.org