________________
आ. दि. ४२
Jain Education Internat
वि
वयखप्रदर्शने ॥ १ ॥ नद्यादिलङ्घने नावारोहणे शीघ्रसर्पणे । कार्योत्सर्गेण संशुद्धिर्जायते तत्त्ववेदिनाम् ||२||” एतद्विशेषो यथा - "भक्ते पाने तथा शय्यासने शुद्धेपि चाहते । उच्चारे च प्रस्रवणे विनादन्यांगमापिते ॥ ३ ॥ | बहिर्हस्तशताच्चैव धर्मागाराद्विनिर्गमे । अर्हद्गुरुमहत्साधुशय्यासनपरिग्रहे ॥ ४ ॥ उच्चासपञ्चविंशत्या कायोत्सर्ग नियोजयेत् । खमे प्राणिवधादीनां महाव्रतविघातिनाम् ॥ ५ ॥ विधेयः शतमुच्छ्वासान्कायोत्सर्गी महात्मभिः । उच्छ्रासाष्टोत्तरशतं चतुर्थे च विधीयते ॥ ६ ॥ आचारे खण्डिते चापि प्रायश्चित्तमिदं स्मृतम् । दैव| सिके शतमुच्छ्वासाः पञ्चाशद्वात्रिकेपि च ॥ ७ ॥ शतत्रये पाक्षिके चातुर्मासे शतपञ्चकम् । अष्टोत्तरसहस्रं तु वार्षे आवश्यके स्मृतम् ॥ ८ ॥ श्रुतोद्देशसमुद्देशानुज्ञासु सकलासु च । सप्तविंशतिमुच्छ्वासान्कायोत्सर्गे निर्दिशेत् ॥ ९ ॥ अष्टोच्चासान्प्रतिक्रमण (कर्म) प्रस्थानयोरपि । अयं विशेषः सर्वेषु कायोत्सर्गेषु दृश्यते ॥ १० ॥” इति कायोत्सर्गार्ह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ तपोर्ह प्रायश्चित्तं यथा - " तपस्तु ज्ञानातिचारादिषु कालादिभ्रंशरूपेषु महात्रतखण्डनकरेषु पातके चोपदिश्यते ॥ तथाच तपसः संज्ञा यथा - " पूर्वार्ध चैव मध्याहं कालातिक्रमके लघु । विलम्बः पितृकालश्च पुरिमार्घाह्वयं दिशेत् ॥ १ ॥ पादो यतिः खभावश्च प्राणाधारः सुभोजनम् । अरोगः परमः शान्तो नामान्येकासने विदुः ॥ २ ॥ अरसो विरसः पूतो निःस्नेहो यतिकर्म च । त्रिपादो निर्मदः श्रेष्ठो नाम (स्यात्) निर्वृतिविदम् ॥ ३ ॥ अम्लं सजलमाचाम्लं कामनं च द्विपादकम् । धातुकृच्छीतमेकान्नं नामाचाम्ले विनिर्दिशेत् ॥ ४ ॥ अनाहारश्चतुःपादो मुक्तो निःपाप उत्तमः । गुरुः
For Private & Personal Use Only
www.jainelibrary.org