________________
आचारदिनकरः
॥ २४१ ॥
Jain Education Interna
आलोएमि । संदिसावेह । आलोएह इति गुरुवाक्यं । ततः सव्वपायश्चित्तसुद्धिनिमित्तं करेमि काउसरगं अन्नत्थउ० जाव० अप्पा० । चतुर्विंशतिस्तवचतुष्कचिन्तनं पारयित्वा मुखेन चतुर्विंशतिस्तवभणनम् । ततो गुर्वग्रे ऊर्ध्वभूय परमेष्ठिमनं त्रिः पठेत् । तत इति गाथास्त्रिः पठनीयाः । यथा - " वंदित्तु वद्धमाणं गोयमसामिं च जम्बुनामं च । आलोअणाविहाणं वुत्थामि जहाणुपुवीए ॥ १ ॥ आलोयणदायवा कस्सवि केणावि कत्थ काले वा । के अ अदाणे दोसा हुंति गुणा के अदाणे वा ॥ २ ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तेहं आलोएमि उवट्ठिओ सङ्घकालंपि ॥ ३ ॥” इति गाथात्रयं त्रिः पठेत् । इति पठित्वा गुर्वग्रे विनयासनेनोपविश्य मुखवस्त्रिकाच्छन्नमुखः अञ्जलिमुकुलिताग्रहस्तः सर्वकृतं सस्मृतं दुः कृतं कर्म कथयेत् । गुरुश्च समाहितः शृणुयाद्धृदयेन वा अक्षरन्यासेन वा सर्व तदुक्तमवधारयेच्च । शिष्येणापि न किंचिगोपनीयं । यदुक्तम् - "जह बालो जंपन्तो कज्जमकज्जं च साहए सवं । तह आलोअणकाले आलोइज्जा गुरुपुरओ ॥ १ ॥ ततो गुरुः सर्वदुष्कृतमवधार्य श्रुतानुगामी स्वमत्यनुसारेण तद्दुः कृतानुसारेण च तदुचितं तपः कायोत्सर्गप्रतिक्रमणादिकं दशविधं प्रायश्चित्तानुचरणमनुजानीयात् । तद्दशविधं प्रायश्चित्तानुचरणं यथागमं यथागुरुवचनं कथ्यते । यथा - " पूर्वमालोचना चैव १ प्रतिक्रमणमेव च २। उभयं च तृतीयं स्यात् ३ विवेकश्च चतुर्थकः ४ ॥ १ ॥ कायोत्सर्गः पञ्चमः स्यात् ५ तपः षष्ठमुदाहृतम् ६ । छन्दस्तु सप्तमो ज्ञेयो ७ मूलमष्टममा- दिशेत् ८ ॥ २ ॥ अनवस्था च नवमं ९ दशमं च पराश्चिकम् १० । एवं दशविधा ज्ञेया प्रायश्चित्तस्य योजना
For Private & Personal Use Only
विभागः २ प्रायश्चित्ताधिकारः
॥ २४१ ॥
www.jainelibrary.org