________________
Jain Education
यादपि । कुमानुषत्वे पतितो दृष्टदेशकुलोद्भवः ॥ ५ ॥ सरोगः खण्डिताङ्गश्च कुर्यात्प्रचुरपातकम् । तेन पापेन महता कुदेवत्वादिसंश्रितः ॥ ६ ॥ पश्चात्तापं च कुरुते बोधिवीजं न चाप्नुयात् । द्वीन्द्रियत्वै केन्द्रियत्वे नि| गोदत्वमवाप्नुयात् ॥ ७ ॥ भ्राम्येदनन्तसंसारं कष्टान्निर्याति वा ततः । इति दोषान् विलोक्यात्र प्रायश्चित्तमुपाचरेत् ॥ ८ ॥ ॥ प्रायश्चित्ताचरणे गुणा यथा - "सर्वपापप्रशमनं सर्वदोषनिवारणम् । प्रवर्धनं च पुण्यानां धर्मिणामात्ममोदनम् ॥ १ ॥ शल्यापहारो जीवस्य नैर्मल्यं ज्ञानसंगतिः । पुण्यस्य संचयो भूयाद्विघ्नस्य च प रिक्षयः ॥ २ ॥ संप्राप्तिः खर्गशिवयोः कीर्तिर्विस्तारिणी भुवि । प्रायश्चित्ताचरणतः फलमेतन्निगद्यते ॥ ३ ॥” प्रायश्चित्तग्रहणविधिरुच्यते । यथा - " मृदुध्रुवचरक्षिप्रैर्वारे भौमं शनिं विना । आघाटनतपोनयालोचनादिषु भं शुभम् ॥ १ ॥” शुभनक्षत्रतिथिवारलग्नेषु गुरुशिष्ययोश्चन्द्रबले साधुः सर्वचैत्येषु चैत्यवन्दनं कुर्यात् । सर्वसाधूनभिवन्दयेत् आचाम्लतपः कुर्याद्वा । गृहस्थस्तु सर्वचैत्येषु महापूजां बृहत्स्नात्रविधिना साधर्मिकवात्सल्यं संघपूजां साधुभ्यो विपुलवस्त्रान्नपानपात्रज्ञानोपकरणदानं पुस्तकपूजनं मण्डलिपूजनं च कुर्यात् । ततः प्राप्तायां शुभवेलायां यतिः श्राद्धो वा गुरुं प्रदक्षिणी कृत्य ईर्यापथिकीं प्रतिक्रम्य स्तुतिचतुष्केण चैत्यवन्दनं विदध्यात् । ततो मुखवस्त्रिकां प्रतिलिख्य द्वादशावर्तवन्दनं दत्वा सर्वसाधून्वन्दित्वा गुर्वग्रे मुखवस्त्रिकां प्रतिलेखयेत् । ततः क्षमाश्रमणं दत्वा भणति-भगवन् शुद्धिं संदिसावेभि । पुनः क्षमाश्रमणं दत्वा-शुद्धिं पडिगाहेमि । पुनः क्षमाश्रमणं दत्वा-भगवन् आलोयणं संदिसावेभि । पुनः क्षमाश्रमणं दत्वा - आलोयणं
For Private & Personal Use Only
www.jainelibrary.org