________________
आचारदिनकरः
॥ २४० ॥
Jain Education Int
रोगादिवर्जितः । अनिन्दकः क्षमाधारी ध्याता जितपरिश्रमः ॥ २ ॥ तत्त्वार्थविद्धारणावाम् नृपरङ्कसमाशयः । वारंवारं श्रुतं दृष्ट्वा विवक्षुर्वचनं शुभम् ॥ ३ ॥ अनालस्यः सदाचारः क्रियावान्कपटोज्झितः । हास्यभीतिजुगुप्साभिः शोकेन च विवर्जितः ॥ ४ ॥ प्रमाणं कृतपापस्य जानन्श्रुतमतिक्रमैः । इत्यादिगुणसंयुक्तः प्रायचित्ते गुरुः स्मृतः ॥ ५ ॥” प्रायश्चित्तानुचारककर्तृ लक्षणम् - "संवेगवान्गुणाकाङ्क्षी तत्वज्ञः सरलाशयः । गुरुभक्तो निरालस्यस्तपःक्षमशरीरकः ॥ १ ॥ चेतनावान्स्मरन्सबै निजाचीर्ण शुभाशुभम् । जितेन्द्रियः क्षमा| युक्तः सर्व प्रकटयन्कृतम् ॥ २ ॥ निर्लज्जः पापकथने खप्रशंसाविवर्जितः । सुकृतस्य परं गोता दुष्कृतस्य प्रकाशकः ॥ ३ ॥ पापभीरुः पुण्यधनलाभाय विहितादरः । सदयो दृढसम्यक्त्वः परोपेक्षाविवर्जितः ॥ ४ ॥ एवंविधो यतिः साध्वी श्रावकः श्राविकापि वा । आलोचनाविधानाय योग्यो भवति निश्चितम् ॥ ५ ॥ " ॥ आलोचनाग्रहणकालो यथा - "पक्षे चैव चतुर्मास्यां तथा संवत्सरेपि च । प्रमादकृतपापान्ते प्राप्ते च प्रवरे गुरौ ॥ १ ॥ तीर्थे च तपआरम्भे महारम्भान्त एव च । इति काले विधेयं स्यात्प्रायश्चित्तप्ररूपणम् ॥ २ ॥ ॥ प्रायश्चित्तानाचरणे दोषो यथा - " लज्जया गौरवेणापि प्रमादेनापि केन वा । गर्वेणावज्ञया चैव मूढत्वेनाथ वा नरः ॥ १ ॥ कदापि नालोचयति पापं यदि समं नरः । तदा तस्य फलं सर्व श्रूयतां दोषसंकुलम् ॥ २ ॥ अनालोचितपापश्चेत्कदाचिन्त्रियते पुमान् । तस्य तत्पापयोगेन दुर्बुद्धिः स्याद्भवान्तरे || ३ || दुर्बुद्ध्या विपुलं | पापं करोत्यन्यद्विमूढधीः । तेन पापेन दारिद्र्यं दुःखं च लभतेतराम् ॥ ४ ॥ प्रयाति नरकं घोरं पशुत्वं प्राप्नु
For Private & Personal Use Only
विभागः २ प्रायश्चित्ताधिकारः
॥ २४० ॥
www.jainelibrary.org