________________
Jain Education Inte
रणेन घटते । तत्र सम्यक पातकागमकारकं प्रायश्चित्तविधिं न केवलिनं विना कोपि जानाति । दुर्ज्ञेयो हि शीघ्रविदार्यमाणवस्त्रतन्तुच्छेदकालज्ञाये ( ? ) तेन मनःपरिणामोद्भवः शुभाशुभः कर्मबन्धः । सूक्ष्मा गतिर्हि मनः परिणामस्य । सूक्ष्मसूक्ष्मप्रमाणा हि दूरधृतान्तरा असंख्याः परिणामाः । क्रोधमानमायालोभरागद्वेषपवप्रकारविषयाणां मनोगतानां तत्पातकपरिच्छेदकर्तॄणां परिणामानां च दूरान्तराः संख्यातीता भावानां गतयः । अतः केवलज्ञानं विना दुरवसेयश्चतुर्भिर्ज्ञानैरपि प्रायश्चित्तविधिः । तथापि दुःषमकाले श्रुताक्षरैर्गीतार्थश्रुतधरोपदेशैः किंचित्प्रायश्चित्तविधिरङ्गीक्रियते । तथा गीतार्थगवेषणां विधाय प्रायश्चित्ताचरणमारभ्यते"सद्धरणनिमित्तं गीयच्छन्नेसणाउ उक्कोसा । जोअणसयाई सत्तउ वारसवासाई कायव्वा ॥ १ ॥ गुरुपमु | हाणं कीरइ असुद्धेहि जित्तियं कालंति । जावज्जीवं गुरुणो असुद्धसुद्धेहिवावि कायव्यं ॥ २ ॥ वसहे बारसवासा अट्ठारसभिक्खुणो मासा । इअ मज्झे कालगओ पावर आलोयणाइफलम् || ३ ||" एवं सप्तशतयो जनार्यदेशभ्रान्त्या द्वादशवर्षमध्ये यदि तत्कालप्रवर्तमानसमस्तश्रुतधरं गीतार्थं गुरुं चेदालोचेदालो चनाग्राही लभते तदा तद्वाक्यप्राप्तप्रायश्चित्तविधिकरणेन सम्यक् तत्पातकान्मोक्षमाप्नोति । अथ च केनालोचनाप्रायचित्तमनुज्ञेयम् १ कस्यानुज्ञेयं २ कः प्रायश्चित्तकाल: ३ प्रायश्चित्तानाचरणे के दोषाः ४ प्रायश्चित्ताचरणे के गुणाः ५ प्रायश्चित्तग्रहणे को विधि: ६ इत्युच्यते । प्रायश्चित्तानुज्ञातृगुरुलक्षणं यथा - "संपूर्णश्रुतपाठज्ञो गीतार्थः पूर्णयोगकृत् । व्याख्याता सर्वशास्त्राणां षट्त्रिंशद्गुणसंयुतः ॥ १ ॥ शान्तो जितेन्द्रियो धीमान् धीरो
For Private & Personal Use Only
www.jainelibrary.org