________________
आचार
दिनकरः
॥ २३९ ॥
Jain Education Inter
विधाय निधिग्रहणं कुर्यात् ॥ "पृष्ठे कृत्वा गुरुं शुक्रं वत्सं च कुलदेवताम् । मातरः पूजनाकाले स्थापनीया | मनीषिभिः ॥ १ ॥ प्रायेण देवताः सर्वा जिनाजशिववर्जिताः । तद्वर्णगन्धैः पुष्पैश्च पूजनीया मनीषिभिः ॥ २ ॥ यो बलिः कथितः पूर्व प्रतिष्ठाशान्तिकादिषु । विधेयः सर्वदेवानां स एवार्हतदर्शने ॥ ३ ॥ सर्वदेवोपहारेषु | सर्वदेव्यर्चनेषु च । निजगुर्वागमः सर्वः प्रमाणं कार्य उत्तमैः ॥ ४ ॥” इति बलिविधानम् ॥ इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे बलिदानकीर्तनो नाम षट्त्रिंशत्तम उदयः ॥ ३६ ॥
सप्तत्रिंशोदयः ।
अथ प्रायश्चित्तविधिः ॥ सचायम् । इह हि प्रायश्चित्तं नाम पापस्य प्रमादकृतस्य विशुद्धिहेतु । तत्र च क्रोधमानमाया लोभप्रकोपैः शब्दरूपरसगन्धस्पर्शैः प्रेरित आत्मा जानन्नपि पुण्यपापोपायं फलविपाकं च यदाचरति न तस्य प्रायश्चित्ताचरणेनापगमः । तत्कर्म भवान्तरे भुक्तमेव क्षीयते । अथोग्रतपसा अथवा वाङ्मनचिन्मयाविर्भावेण शुक्लध्यानेन तत्कर्म क्षीयते नान्यथा । यत उक्तमागमे - "पावाणं खलु भो कडाणं क स्माणं पुर्वि दुच्चिन्ताणं दुप्पडिकंताणं वेअइत्ता मुक्खो नत्थि । अवेअयत्ता तवसा वा जोसइत्ता" ॥ च - अज्ञानत्वेना (१) नानाभोगेन परानुवृत्त्या भयेन हास्येन नृपादिबलात्कारेण प्राणरक्षार्थं गुरुसंघप्रत्यनीकविघातार्थं परबन्धनमरकदुर्भिक्षादिसंकटे कृतानां पातकानामपगमः सद्गुरुगीतार्थप्रोक्तप्रायश्चित्तविधिसमाच
॥ तथा
For Private & Personal Use Only
विभागः २
प्रायश्चित्ताधिकारः
॥ २३९ ॥
www.jainelibrary.org