SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ २३८ ॥ Jain Education Inte | समापिते । इत्यादिस्थानकेष्वाहुः पौष्टिकस्य विधापनम् ॥ ३ ॥ आधयो व्याधयश्चैव दुरितं दुष्टशत्रवः । पापानि च क्षयं यान्ति महत्पुण्यं विवर्धते ॥ ४ ॥ सुप्रसन्ना देवताः स्युर्यशोबुद्धिमहाश्रियः । आनन्दश्च प्रतापच महत्त्वं पुष्टिमृच्छति ॥ ५ ॥ आरब्धं च महाकार्य प्रयत्नादेव सिद्ध्यति । भूतग्रहपिशाचादि दोषा धिष्ण्यग्रहैः कृताः ॥ ६ ॥ रोगाश्च प्रलयं यान्ति न विनं कापि जायते । पौष्टिकस्य फलं प्राहुरित्याचारविचक्षणाः ॥ ७ ॥ इति पौष्टिकम् ॥ " सर्वत्र गृहिसंस्कारे सूतिसृत्युविवर्जिते । प्रारब्धे च महाकार्ये प्रतिष्ठाखखिलास्वपि ॥ १ ॥ राज्याभिषेकसमये शान्तिकं पौष्टिकं द्वयम् । विधापयेद्विशुद्धात्मा तत्त्वाचारविचक्षणः ॥ २ ॥ इत्याचार्यवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे पौष्टिककीर्तनो नाम पञ्चत्रिंशत्तम उदयः ॥ ३५ ॥ षट्त्रिंशोदयः । अथ बलिविधानविधिः ॥ सचायम् । बलिशब्देन तत्तद्दैवतसन्तर्पणख्यातं नैवेद्यमुच्यते । सच नाना (खा)खाद्यपेय चूष्यले ह्याशनपानखादिमखादिमसहितो देवताग्रत उपहियते । तत्र देवताविशेषेण बलीनां बलिदानविधेरपि भेदः । स चोच्यते । अर्हतोऽग्रतः तद्दिनगृहाचार भोज्याहाराणां सर्वेषां तैलकाञ्जिकपकवर्जितानां ढौकनं पवित्रपात्रेण तत्कालराजस्याग्रपिण्डस्य ढौकनं । न तत्र देवनैवेद्यकृते पृथक्पाकाद्युपक्रमो विधेयः । पुरापि भगवानायुःकर्माणि समीपस्थे गृहीतव्रतः स्वयोगनिष्पन्नैराहारैः शरीरधारणमकृत अतो भवि - For Private & Personal Use Only विभागः २ बलिदानाधिकारः ॥ २३८ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy