________________
Jain Education Internatio
तिकीर्ति बुद्धिलक्ष्मीवर्षधरदेव्यः पुष्टिं कुर्वन्तु खाहा । ॐ गणेशदेवताः पुरदेवताः पुष्टिं कुर्वन्तु खाहा । अस्मिंश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु राज्ञां पुष्टिर्भवतु राज्यसन्निवेशानां पुष्टिर्भवतु पुरस्य पुष्टिर्भवतु पुराध्यक्षाणां पु० ग्रामाध्यक्षाणां पु० सर्वाश्रमाणां पु० सर्वप्रकृतीनां पु० पौरलोकस्य पु० | पार्षद्यलोकस्य पु० जैन लोकस्य पु० अत्र च गृहे गृहाध्यक्षस्य पुत्रभ्रातृस्वजनसम्बन्धिकलत्रमित्र महितस्य पु० | एतत्समाहितकार्यस्य पु० तथा दासभृत्यसेवककिंकर द्विपदचतुष्पदबलवाहनानां पु० भाण्डागारकोष्ठागाराणां पुष्टिरस्तु ॥ " नमः समस्तजगतां पुष्टिपालन हेतवे । विज्ञानज्ञानसामस्त्यदेशकायादिमाऽर्हते ॥ १ ॥ येनादौ | सकला सृष्टिर्विज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टिं तुष्टिं करोत्विह ॥ २ ॥” यत्र चेदानीमायतननिवासे तुष्टिपुष्टिऋद्विवृद्धिमाङ्गल्योत्सवविद्यालक्ष्मीप्रमोदवाञ्छितसिद्धयः सन्तु शान्तिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु "प्रवर्धतां श्रीः कुशलं सदास्तु प्रसन्नतामञ्चतु देववर्गः । आनन्दलक्ष्मीगुरुकीर्तिसौख्य समाधियुक्तोऽस्तु समस्तसंघः ॥ १ ॥ सर्वमङ्गल० ॥ २ ॥” इति दण्डकं त्रिः पठित्वा पौष्टिककलशे पूर्णे पौष्टिककारकः कुशेनाभिषिञ्चेत् । गृहे च सुहृद्गृहे च तेन जलेन सदाभ्युक्षणं कुर्यात् । पीठपञ्चकविसर्जनं पूर्ववत् यान्तु देवगणा० इत्यादि आज्ञाहीनं० इत्यादि साधुभ्यो वस्त्रान्नपानदानं विपुलं गुरुपूजनं च सर्वोपचारैः ॥ " सर्वत्र गृहिसंस्कारे सूतिस्मृत्युविवर्जिते । दीक्षाग्रहणतश्चादौ व्रतारम्भे समस्तके ॥ १ ॥ प्रतिष्ठासु च सर्वासु राज्यसंघपदे तथा । सर्वत्र शोभनारम्भे सर्वेष्वपि च पर्वसु ॥ २ ॥ महोत्सवे च संपूर्णे महाकार्ये
For Private & Personal Use Only
www.jainelibrary.org