________________
आचारदिनकरः
विभागः२ |पौष्टिकाधिकार
॥२३६॥
गतिः पटुदीर्घशोभा। वीणोरुपुस्तकवराभयभासमानहस्ता सुवुद्धिमधिकां प्रददातु बुद्धिः॥१॥ ॐ नमो बुद्धये महापुण्डरीकद्रवासिन्यै बुद्धे इह शेषं ॥५॥ लक्ष्मी प्रति-ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः इति मूल ॥ "ऐरावणासनगतिः कनकाभवस्त्रदेहा च भूषणकदम्बकशोभमाना। मातङ्गपद्मयुगुलप्रसृतातिकान्तिवेदप्रमाणककरा जयतीह लक्ष्मीः ॥१॥” ॐ नमोलक्ष्म्यै पुण्डरीकद्रहवासिन्यै लक्ष्मि इह. शेष ॥६॥ ततः ॐ श्रीही तिकीर्तिबुद्धिलक्ष्म्यो वर्षधरदेव्यः सायुधाः सवाहनाः सपरिच्छदा इह पौष्टिके आगच्छन्तु २ इदं० आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवद्यं सर्वोपचारान् २ शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । अनेन संकुलपूजा । एवं पीठपञ्चकस्थापनां संपूज्य क्रमेण प्रत्येकं मूलमन्त्रों मं कुर्यात् । अत्र पौष्टिके सर्वोपि होमोऽष्टकोणकुण्डे आम्रसमिद्भिः इक्षुदण्डखर्जूरद्राक्षाघृतपयोभिः । ततः पूर्वप्रक्षिप्तासु पुष्पाञ्जलिषु जिन|बिम्बे बृहत्स्नात्रविधिना परिपूर्ण लानं कुर्यात् । तच्च स्लात्रोदकं तीर्थोदकसंमिश्रं शान्तिककलशवत् संस्थापिते प्रगुणीकृते पौष्टिककलशे निक्षिपेत् । तत्र सुवर्णरूप्यमुद्राद्वयं नालिकेर निक्षिपेत् । कलशं सम्यक्संपूजयेत्पूर्ववत् । छदिसंलग्नं कलशतलस्पर्शिसदशाव्यङ्गवस्त्रं चोपरि लम्बयेत् । पीठपञ्चके च क्रमेण चतुःषष्टिकरषोडशकरदशकरषट्करैर्वस्त्रैराच्छादनं । गुरुस्लानकारगृहाध्यक्षकलशाः पूर्वमेव सकङ्कणा विधेयाः वर्णकङ्कणमुद्रिके च गुरवे देये सदशाव्यङ्गश्वेतकौशेयं च । ततः स्नात्रकारद्वयं पूर्ववदखण्डितधारया शुद्धोदककलशे
CACAA-%AC-%%255
॥२३६॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org