________________
Jain Education Inter
नमः । ॐ लक्ष्म्यै नमः । इत्युक्त्वा पीठे षण्णां क्रमेण संस्थापनं कुर्यात् । श्रियं प्रति — ॐ श्रीं श्रिये नमः इति मूलमन्त्रः ॥ “अम्भोजयुग्मवरदाभयपूतहस्ता पद्मासना कनकवर्णशरीरवस्त्रा । सर्वाङ्गभूषणधरोपचिताङ्गयष्टिः श्रीः श्रीविलासमतुलं कलयत्वनेकम् ॥ १ ॥” ॐ श्रियै पद्मद्रहनिवासिन्यै श्रिये नमः श्रि इह पौष्टिके आगच्छ २ सायुधा सवाहना सपरिकरा इदमर्घ्य० आचमनीयं गृहाण २ सन्निहिता भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान्० शान्तिं कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ खाहा । अनेन सर्वपूजा करणं ॥ १ ॥ हियं प्रति — ॐ ह्रीं हिये नमः इति मूलमन्त्रः ॥ “ धूम्राङ्गयष्टिरसिखेटक बीजपूरवीणाविभूषितकरा धृतरक्तवस्त्रा । हीघरवारणविघातनवाहनाढ्या पुष्टीश्च पौष्टिकविधौ विदधातु नित्यम् ॥ १ ॥” ॐ नमो हिये महापद्मद्रहवासिन्यै हि इह० शेषं० ॥ २ ॥ धृतिं प्रति-ॐ भ्रां भ्रीं धौं भ्रः धृतये नमः इति मूल० || "चन्द्रोज्वलाङ्गवसना शुभमानसौकः पत्रिप्रयाणकृदनुत्तरसत्प्रभावा । स्रक्पद्मनिर्मलकमण्डलुबीजपूरहस्ता धृतिं धृतिरिहानिशमादधातु ॥ १ ॥ ॐ नमो घृतये तिगिच्छिद्रहवासिन्यै धृते इह० शेषं० ॥ ३ ॥ कीर्ति प्रति — ॐ श्रीं शः कीर्तये नमः इति मूल० ॥ " शुक्लाङ्गयष्टिरुडुनायकवर्णवस्त्रा हंसासना घृतकमण्डलुकाक्षसूत्रा । श्वेताब्जचामरविलासिकरातिकीर्तिः कीर्ति ददातु वरपौष्टिककर्मणात्र ॥ १ ॥ ॐ नमः कीर्तये केशरिद्रहवासिन्यै इह० शेषं० ॥ ४ ॥ बुद्धिं प्रति - ॐ ऐं धीं बुद्धये नमः इति मूल० ॥ " स्फारस्फुरत्स्फटिकनिर्मलदेहवत्रा शेषाहिवाहन
For Private & Personal Use Only
www.jainelibrary.org