________________
आचार
दिनकरः
।। २३५ ।।
Jain Education
हम् ॥ ८ ॥ पलालधूमसंकाशं तारकाग्रहमर्दकम् । रुद्राद्रुतमं घोरं तं केतुं प्रणमाम्यहम् ॥ ९ ॥ इदं व्यास - मुखोद्भूतं यः पठेत्सुसमाहितः । दिवा वा यदि वा रात्रौ तेषां शान्तिर्भविष्यति ॥ १० ॥ ऐश्वर्यमतुलं चैवमारोग्यं पुष्टिवर्धनम् । नरनारीवश्यकरं भवेद्दुःखमनाशनम् ॥ ११ ॥ ग्रहनक्षत्रपीडां च तथा चाग्निसमुद्भवम् । तत्सर्व प्रलयं याति व्यासो ब्रूते न संशयः ॥ १२ ॥” इति ग्रहपूजनान्ते त्रिः पठेत् शान्त्यर्थम् । इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे शान्तिकाधिकारकीर्तनो नाम चतुस्त्रिंशत्तम उदयः ॥
।
पञ्चत्रिंशोदयः ।
अथ पौष्टिक विधिरुच्यते ॥ सचायम् । श्रीयुगादिजिनबिम्बं चन्दनचर्चितपीठोपरि संस्थाप्य पूर्ववत्पूजां | विधाय तद्विम्बालाभे पूर्ववत् ऋषभविम्बं परिकल्प्य वृहत्स्नात्रविधिना पञ्चविंशतिपुष्पाञ्जलीन्प्रक्षिपेत् । ततः प्रतिमाग्रे पञ्च पीठानि पूर्ववत्संस्थाप्य प्रथमपीठे चतुःषष्टिसुरासुरेन्द्रस्थापनं पूजनं च पूर्ववत् । द्वितीयपीठे दिक्पालस्थापनं पूजनं च पूर्ववत् । तृतीयपीठे सक्षेत्रपालग्रहस्थापनं पूजनं च पूर्ववत् । चतुर्थपीठे षोडशवियादेवी स्थापनं पूजनं च पूर्ववत् । पञ्चमपीठे षट्द्रहदेवीस्थापनं । तत्पूजनविधिरभिधीयते । प्रथमं पुष्पाञ्जलिं गृहीत्वा "श्रीहीघृतयः कीर्तिर्बुद्धिर्लक्ष्मीश्च षण्महादेव्यः । पौष्टिकसमये संघस्य वाञ्छितं पूरयन्तु मुदा ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । ॐ श्रिये नमः । ॐ हिये नमः । ॐ धृतये नमः । ॐ कीर्तये नमः । ॐ बुद्धये
For Private & Personal Use Only
विभागः २ पौष्टिकाधिकारः
॥ २३५ ॥
www.jainelibrary.org