________________
आ. दि. ४०
Jain Education Inter
तान् जिनान् ॥ ७ ॥ गन्धपुष्पादिभिर्धूपैनैवेद्यः फलसंयुतैः । वर्णसदृशदानैश्च वासोभिर्दक्षिणान्वितैः ॥ ८ ॥ आदित्य सोममङ्गलबुधगुरुशुक्राः शनैश्वरो राहुः । केतुप्रमुखाः खेटा जिनपतिपुरतोऽवतिष्ठन्तु ॥ ९ ॥ जिनानामग्रतः स्थित्वा ग्रहाणां तुष्टिहेतवे । नमस्कारस्तवं भक्त्या जपेदष्टोत्तरं शतम् ॥ १० ॥ भद्रबाहुरुवाचेदं पश्चमः श्रुतकेवली । विद्याप्रवादतः पूर्व ग्रहशान्तिविधिस्तवः ॥ ११ ॥” इति भणित्वा पञ्चवर्णपुष्पाञ्जलिं क्षिपेत् । ततः सूर्यपूजने ॐ घृणि २ नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्यः सायुधः सवाहनः सपरिच्छदः इह ग्रहशान्तिके आगच्छ २ इदमर्घ्य पायं बलिं चरुं आचमनीयं गृहाण २ सन्निहितो भव २ खाहा जलं गृहाण २ गन्धं पुष्पं अक्षतानं फलानि मुद्रां धूपं दीपं नैवेद्यं० सर्वोपचारान् शान्तिं कुरु तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं देहि २ खाहा ॥ "अदितेः कुक्षिसं भूतो भ(घ) रण्यां विश्वपावनः । काश्यपस्य कुलोत्तंसः कलिङ्गविषयोद्भवः ॥ १ ॥ रक्तवर्णः पद्मपाणिर्ममूर्तिस्त्रयीमयः । रत्नादेवीजीवितेशः सप्ताश्वोऽरुणसारथिः ॥ २ ॥ एकचक्ररथारूढः सहस्रांशुस्तमोपहः । ग्रहनाथ ऊर्ध्वमुखः सिंहराशौ कृतस्थितिः ॥ ३ ॥ लोकपालोऽनन्तमूर्तिः कर्मसाक्षी सनातनः । संस्तुतो वालखिल्यैश्च विघ्नहर्ता दरिद्रहा ॥ ४ ॥ तत्सुता यमुना वापी भद्रायमशनैश्वराः । अश्विनीकुमारौ पुत्रौ नि१ दीपैः फलनैवेद्यसंयुतैरिति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org