________________
आचार
दिनकरः
॥ २३० ॥
Jain Education Int
नुलिप्ते स्वखवर्णैर्ग्रहान्स्थापयेत् विधिपूजितायास्तीर्थकर प्रतिमायाः पुरः । तेषां स्थापनकृतिर्यथा - " मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे । दक्षिणे लोहितं विद्याद्बुधः पूर्वोत्तरेण तु ॥ १ ॥ उत्तरेण गुरुं विद्यात्पूर्वे - णैव तु भार्गवम् । पश्चिमेन शनिं विद्याद्राहुं दक्षिणपश्चिमे ॥ २ ॥ पश्चिमोत्तरतः केतुः स्थाप्यश्च किल तन्दुलैः । मार्तण्डे मण्डलं वृत्तं चतुरस्रं निशाकरे ॥ ३ ॥ महीपुत्रे त्रिकोणं स्याद्बुधे वै वाणसन्निभम् । गुरौ तु | पट्टिकाकारं पञ्चकोणं तु भार्गवे ॥ ४ ॥ धनुराकृतिर्मन्दे तु शूर्पाकारं तु राहवे । केतवे तु ध्वजाकारं मण्डलानि नवैव तु ॥ ५ ॥ शुक्रार्कौ प्राङ्मुखौ ज्ञेयौ गुरुसौम्यावुदङ्मुखौ । प्रत्यङ्मुखः शनिः सोमः शेषाश्च दक्षिणामुखाः ॥६॥” इति ग्रहाणां मण्डलस्थापनविधिः प्रतिष्ठाष्टाहिकादिषु स्थापनीयः । श्रेयः स्यात् । तत एवं संस्थाप्य पुष्पाञ्जलिं गृहीत्वा - " जगद्गुरुं नमस्कृत्य श्रुत्वा सद्गुरुभाषितम् । ग्रहशान्तिं प्रवक्ष्यामि लोकानां सुखहेतवे ॥ १ ॥ जिनेन्द्रः खेचरा ज्ञेयाः पूजनीया विधिक्रमात् । पुष्पैर्विलेपनै धूपैर्नैवेद्यस्तुष्टिहेतवे ॥ २ ॥ पद्मप्रभस्य मार्तण्डश्चन्द्र चन्द्रप्रभस्य च । वासुपूज्यो भूमिपुत्रो बुधोऽप्यष्टजिनेश्वराः ॥ ३ ॥ विमलानन्तधर्माराः शान्तिः कुन्धुर्नमिस्तथा । वर्धमानो जिनेन्द्राणां पादपद्मे बुधं न्यसेत् ॥ ४ ॥ ऋषभाजितसुपार्श्वा अभिनन्दनशीतलौ । सुमतिः संभवः स्वामी श्रेयांसश्च बृहस्पतिः ॥ ५ ॥ सुविधिः कथितः शुक्रः सुव्रतश्च शनैश्वरः । नेमिनाथो भवेद्राहुः | केतुः श्रीमल्लिपार्श्वयोः ॥ ६ ॥ जन्मलग्ने च राशौ च पीडयन्ति यदा ग्रहाः । तदा संपूजयेद्धीमान्खेचरैः सहि
१ प्यष्टजिनेषु च इति पाठः ।
For Private & Personal Use Only
विभागः २
शान्त्यधिकारः
॥ २३० ॥
www.jainelibrary.org