________________
Jain Education Intern
भरण्या चण्डालजातेरपि निर्दिशन्ति ॥ २८ ॥ रविरवि सुतभोगमागतं क्षितिसुतभेन च वक्रदूषितम् । ग्रहण| गतमथोल्कया हतं नियतमुखाकरपीडितं च यत् ॥ २९ ॥ तदुपहतमितिं प्रचक्षते प्रकृतिविपर्यययातमेव वा । निगदितमरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥ ३० ॥ रोगाभ्यागमवित्तनाशकलहासंपीडिते जन्मभे सिद्धिं | कर्म न याति कर्मणि हते भेदस्तु सांघातिके । द्रव्यस्योपचितस्य सामुदयिके संपीडिते संक्षयो वैनाशे तु भवन्ति कायविपदश्चिन्ता सुखं मानसे ॥ ३१ ॥ निरुपद्रुतभे निरामयः सुखवान्नष्टरिपुर्धनान्वितः । षडुपतभे विनश्यति त्रिभिरन्यैश्च सहावनीश्वरैः ॥ ३२ ॥ न भवति शरीरपीडा यस्य विना शान्तिभिर्न पीडायाः । तस्य शरीरवियुक्तिं पक्षान्ते देवलः प्राह ॥ ३३ ॥ सर्वेषां पीडायां दिनमेकमुपोषितोऽनले जुहुयात् । सावित्र्या क्षीरतरोः समिद्भिरमरद्विजात्पुरतः ॥ ३४ ॥ गोक्षीरसितवृषशकृन्मूत्रैः पत्रैश्च पूर्णकोशायाः । स्नानं जन्मनि दुष्टे खाचारवतां हरति पापम् ॥ ३५ ॥ कर्मणि मधुघृतहोमो दशाहमक्षारमद्यमांसादः । दूर्वाप्रियङ्गुसर्षपशतावरीस्नानमाधेयम् ॥ ३६ ॥ संघातिके तु तसे मांसमधुक्रौर्यमन्मथांस्त्यक्त्वा । दान्तो दूर्वा जुहुयाद्दानं दद्याद्यथाशक्ति ॥ ३७ ॥ समुदायिके तु दद्यात्काञ्चनरजताद्युपद्रुते धिष्ण्ये । वैनाशिकेऽन्नपानं वसुधां च गुणान्विते दद्यात् ॥ ३८ ॥ मानसतापे होमः सरोरुहैः पायसैर्द्विजाः पूज्याः । गजमदशिरीषचन्दनतिलातिव| लवारिणा स्नानम् ॥ ३९ ॥ इति लोकयात्रानुसारेण नक्षत्रशान्तिकम् ॥
अथ ग्रहशान्तिकम् ॥ तत्र पूर्व ग्रहस्थापनम् । शुद्धभूमौ गोमयानुलिप्तायां श्रीखण्ड श्रीपर्णीपीठे चन्दना
For Private & Personal Use Only
www.jainelibrary.org