________________
आचारदिनकरः
॥ २२८ ॥
Jain Education Int
॥ २० ॥ उत्तराषाढा शान्तिके विश्वेदेवान्संपूज्य मधुसर्वान्नसर्व फलैहमः ॥ २१ ॥ अभिजित्शान्तौ ब्रह्माणं सं० घृततिलयवदभैर्होमः ॥ २२ ॥ श्रवणशान्तौ विष्णुंसं० सर्वत्र घृतयुतवस्तुहोमः ॥ २३ ॥ धनिष्ठाशान्तौ वसून्संपूज्य घृतमधुमुक्ताफलहोम: ॥ २४ ॥ शतभिषकशान्तौ वरुणं सं० घृतमधुफलकमलहोमः ॥ २५ ॥ पूर्वाभाद्रपदाशान्ती अजपादं सं० घृतमधुभ्यां होमः ॥ २६ ॥ उत्तराभाद्रपदाशान्तौ अहिर्बुध्यं सं० घृतमधुहोमः ॥ २७ ॥ रेवतीशान्तौ सूर्य सं० घृतमधुयुतैः कमलैहमः ॥ २८ ॥ ॐ नमो अश्विन्यादिरेवतीपर्यन्तनक्षत्रेभ्यः सर्वनक्षत्राणि सायुधानि सवाहनानि सपरिच्छदानि इह नक्षत्रशान्तिके आगच्छन्तु २ इदमर्घ्य आ चमनीयं गृह्णन्तु २ सन्निहितानि भवन्तु स्वाहा २ जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ खाहा । इति नक्षत्राणां संकुलपूजा । नक्षत्रपीठोपरि अष्टाविंशतिहस्तप्रमाणसदृशाव्यङ्गवस्त्राच्छादनं कुर्यात् । शान्तिके | क्रियमाणे यस्य नक्षत्रस्य शान्तिकं विधीयते तस्यैव अनया रीत्या होमः । शेषाणां होमः पूजा च पूर्ववत् । केचिच भिन्नमपि नक्षत्रशान्तिकर्माचक्षते ॥
अथ लोकाचारेण स्नानादिना नक्षत्रशान्तिकं लिख्यते ॥ मदयन्तिकाश्च गन्धा मदनफलवचामधूनि शस्यन्ते । प्रथम भरणीषु च सिद्धार्थक भद्रदारुवचाः ॥ १ ॥ न्यग्रोधशिरीषाश्वत्थपत्रगन्धाश्च कृत्तिकास्त्राने । बहुबीजशस्ततो यैर्जयार्थिनो रोहिणीलानम् ॥ २ ॥ मुक्ताकाश्चनमपि संप्रयुज्य तेनाम्भसा मृगाङ्कर्क्षे । रौद्रे
For Private & Personal Use Only
विभागः २
शान्त्यधिकारः
॥ २२८ ॥
www.jainelibrary.org