________________
じん
Jain Education Inter
आग्नेय्यै नमः । ॐ यमाय नमः याम्यै नमः । ॐ निर्ऋतये नमः नैर्ऋत्यै नमः । ॐ वरुणाय नमः वारुण्यै नमः । ॐ वायवे नमः वायव्यै नमः । ॐ कुबेराय नमः कौबेर्यै नमः । ॐ ईशानाय नमः ईशान्यै नमः । ॐ नागेभ्यो नमः नागांण्यै नमः । ॐ ब्रह्मणे नमः ब्रह्माण्यै नमः । ॐ इन्द्राग्नियमनिर्ऋतिवरुणवायु कुबेरेशान नागब्रह्मणो दिगधीशाः खखशक्तियुताः सायुधबलवाहनाः खखदिक्षु सर्वदुष्टक्षयं सर्वविघ्नोपशान्ति कुर्वन्तु २ स्वाहा इति पुष्पाक्षतक्षेपैर्दिग्बन्धनं नैवेद्यक्षेपश्च । ततः मातृशिश्वोः अङ्गेषु मन्त्रन्यासश्च यथा - ॐ मस्तके श्री ललाटे भ्रं भ्रुवोः ह्रीं नेत्रयोः ह्रीं नासायां ऐं कर्णयोः ह्रीं कण्ठे ह्रीं हृदि हूं वाह्रोः खां उदरे क्ली नाभौ हः लिङ्गे ह्रां जद्वयोः यः पादयोः ब्लूं सर्वसंधिषु । ततोऽनन्तरं पूर्वोक्त श्लोक पाठपूर्व मूलचतुःपादकथितवस्तु कोरान्नमयं स्नात्रं क्रमेण ४ । तदनन्तरं पूर्वोक्तशतमूल्याद्योषधस्नानं क्रमेण । ततः पूर्वोक्तजिननात्रोदकेन स्नात्रम् । ततस्ती| र्थोदकशुद्ध जलस्नात्रम् । तदनन्तरं दर्पणदर्शनं अर्धपात्रदर्शनं शिशोः कारयेत् । पद्ममुद्गरगरुडकामधेनुपरमेष्टिरूपाः पञ्च मुद्राश्च बालकशिरसि कुर्यात् । ततो बीजपूरादिफलसहितं बालं वाससाच्छादितं नयेत् । तदनन्तरं लग्नवेलायां मुखमुद्धाट्य दधिपात्रे घृतपात्रे पिता बालमुखं दृष्ट्वा पञ्चात्साक्षादवलोकयेत् । अयं च विधिः पूर्वशान्तिकमध्ये पृथग्वा कार्यः । इति मूलविधानम् ॥
पूर्वाषाढादिशान्तिकानि ॥ पूर्वाषाढा शान्तिके वरुणं संस्थाप्य पूर्ववत्संपूज्य घृतमधुगुग्गुलकमलैहोंमः
१ ईशाः प्रयोगा रूढाः ।
For Private & Personal Use Only
www.jainelibrary.org