________________
आचारदिनकर
॥२२७॥
ASUSRASHGAAN**
पितुर्वितनुताद्भद्रम् ॥२॥ युगन्धर्या ततः लानं तथैव विहितं हितम् । दोषान्द्वितीयपादस्य जनन्या हरति विभागः२ क्षणात् ॥ ३॥ तृतीयं सर्षपस्थानं दोषतानवहेतवे । भूयात्तृतीयपादस्य धनवृद्धिनिबन्धनम् ॥ ४॥ सप्तधान्य
शान्त्य मयं स्नानं चतुर्थ मन्त्रपूर्वकम् । सर्वदोषापहं भूयात्सर्वसंपत्तये पितुः॥५॥ अष्टादशाहत्प्रतिमा विधेया स्ला
धिकारः नोदकान्येकतमे च कुम्भे । विधाय कुर्यादभिषेकमेके कृतस्य बालस्य शुभाभिवृद्ध्यै ॥६॥ दर्शयेत्तदनु दपणं शिशोरर्घपात्रमपि दर्शयेत्तथा । पद्ममुद्गरगरुत्मदादिका मुद्रिका प्रकटयेत्ततो गुरुः ॥७॥ बीजपूरकना-16 रिङ्गबदरप्रमुखैः फलैः । पूरिताङ्कमथो बालं वाससाच्छादयेद्गुरुः ॥८॥ लग्नसमयेऽथ बालकमुत्थाप्य विलोक्य | दनि मुखमस्य । तदनु च घृतपात्रेऽसौ साक्षात्सर्वोप्यवेक्षेत ॥९॥ नश्यन्ति दुरितततयः स्फूर्जन्ति समं | ततोऽपि कुशलानि । मूलविधाने विहिते सिद्ध्यन्ति मनोरथाः सर्वे ॥१०॥ आश्लेषामूलजातानां शिशूनां न पिता मुखम् । पश्येद्यावन्न द्वितीयागमे शान्तिकमाचरेत् ॥ ११॥ गण्डान्तव्यतिपातभद्रादिषु समयजातेषु । बालेषु सूतकान्ते शान्तिकमेवं विधातव्यम् ॥ १२॥ तिथिवारेन्दुलग्नादि न पश्येद्धिष्ण्य आगते । तच्छान्तिकं प्रकुर्वीत विष्ट्यादिसूतकान्ततः ॥१३॥ त्रिज्येष्ठे च त्रिवेण्यां च कन्याद्वयसमुद्भवे । जाते हीनाधिकाङ्गे च मूलस्नानं प्रशस्यते ॥१४॥ तथा अथवा श्रीपुष्पदन्तमन्त्रस्नानानन्तरं बालस्य कङ्कणबन्धादर्वाक विध्यन्तरमामनन्ति । यथापूर्व दिग्बन्धनं । यथा पूर्वादिशि ॐ इन्द्राय नमः इन्द्राण्यै नमः । ॐ अग्नये नमः ॥ २२७ ॥
घृतभृतपात्र साक्षात्सर्वोप्यबीझेत इति पाठः ।
Jain Education in
For Private & Personal use only
www.jainelibrary.org