________________
Jain Education Inte
शा० इह शान्तिके आगच्छन्तु २ इदम० आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ खाहा जलं गृह्णन्तु गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं • सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं • सर्वसमीहितं ददतु २ स्वाहा । अनेन मन्त्रेण सर्वसंकुलपूजा । उपरि अष्टाविंशतिहस्तवस्त्राच्छादनं ॥ ४ ॥ ततः पञ्चमपीठे ग्रहपूजनं नन्द्यावर्तवत् नवहस्तवस्त्राच्छादनं ॥ ५ ॥ षष्ठपीठे षोडशविद्यादेवीपूजनं नन्द्यावर्तवत् । षोडशहस्तवस्त्राच्छादनं ॥ ६ ॥ सप्तमपीठे गणपतिं प्रति-ॐ गं नमो गणपतये खाहा इति मूल० । ॐ नमो गणपतये सायुधाय सवाहनाय सपरिकराय गणपते इह० शेषं पुल्लिंगेन एकवचनेन । विशेषेण मोदकनैवेद्यम् ॥ १ ॥ कार्तिकेयं प्रति — ॐ ब्लीं नमः कार्तिकेयाय स्वाहा इति मूल० । ॐ नमः कार्तिकेयाय सायुधाय सवाहनाय सपरिकराय कार्तिकेय इह० शेषं पुंल्लिं० एक० ॥ २ ॥ क्षेत्रपालपूजा पूर्ववत् ॥ ३ ॥ पुरदेवतां प्रति — ॐ मं मं नमः पुरदेवाय स्वाहा इति मूल० । ॐ नमः पुरदेवाय सायुधाय सवाहनाय सपरिकराय पुरदेव इह० शेषं० पुं० ॥ ४ ॥ चतुर्णिकायदेवपूजनं पूर्ववत् ॥ ५ ॥ अष्टहस्तवस्त्राच्छादनं । इति सर्वेषां पूजां विधाय त्रिकोणकुण्डे होमः । परमेष्ठिसंतर्पणे खण्डघृतपायसैः श्रीखण्डश्रीपर्णीसमिद्भिर्होमः । दिक्पाल संतर्पणे घृतमधुफलैः लक्षाश्वत्थसमिद्भिर्होमः । ग्रहसंतर्पणे क्षीरमधुघृतैः फलसहितैः कपित्थाश्वत्थसमिद्भिर्होमः । विद्यादेवी संतर्पणे घृतपायसखण्ड फलैरश्वत्थसमिद्भिर्होमः । गणपतिसंतर्पणे मोदकैः उदुम्बरसमिद्भिर्होमः । कार्तिकेयसंतर्पणे मधूकपुष्पैः सघृतैः लक्षसमिद्भिर्होम: । क्षेत्रपालसंतर्पणे तिलपिण्डैर्धन्तूरस
For Private & Personal Use Only
www.jainelibrary.org