________________
आचार
दिनकरः
॥ २२३ ॥
Jain Education Inter
मिद्धिहोंमः । पुरदेवता संतर्पणे घृतगुडक्षौद्रैर्वटसमिद्धिहोंमः । चतुर्णिकायदेवसंतर्पणे नानाफलैः पायसैः प्राप्तसमिद्भिर्होमः । सर्वत्र होमे मूलमन्त्राः । समिधः सर्वत्र प्रादेशप्रमाणाः । एवं सर्वेषां पूजनं होमं च विधाय पुष्पाञ्जलिक्षेपादनन्तरं यः सर्वोपि बृहत्स्नात्रविधिः कथितः स्नपनविधिः स सर्वोपि विधेयः । ततः स्लात्रानन्तरं स्नात्रोदकं सर्व ग्राह्यम् । सर्वतीर्थजलं च संमील्य बिम्बाग्रे सुविलिप्तभूमौ चतुष्किकोपरि न्यस्तस्य यथासंपत्तिकृतस्य बद्धकण्ठस्य मदनफलादिरक्षस्य शान्तिकलशस्य मध्ये निक्षिपेत् । रक्षादिवन्धनं सर्वत्र शान्तिमन्त्रेण । ततः कलशमध्ये स्वर्णरूप्यमुद्राः पूगफलानि नालिकेरं च शान्तिमन्त्रेण न्यसेत् । ततः शुद्धोदकैरखण्डधारया द्वौ स्नात्रकारौ स्नात्रकलशं पूरयतः । उपरिच्छदाधारेण आकलशमूलावलम्बि सदशवस्त्रं बनीयात् । गुरुश्च कुशेन तां जलधारां शान्तिकलशे निपतन्तीं शान्तिकदण्डकं पठन्नभिमन्त्रयति । शान्तिदण्डको यथा - " नमः श्रीशान्तिनाथाय सर्वविघ्नापहारिणे । सर्वलोकप्रकृष्टाय सर्ववाञ्छितदायिने ॥ १ ॥ ” इह हि भरतैरावतविदेहजन्मनां तीर्थकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्चलितासना विमानघण्टाटङ्कारक्षुभिताः प्रयुक्तावधिज्ञानेन जिनजन्मविज्ञान परमतममहाप्रमोदपूरिताः मनसा नमस्कृत्य जिनेश्वरं सकल| सामानिकाङ्गरक्षपार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकातियोगिकसहिताः साप्सरोगणाः सुमेरुशृङ्गमागच्छन्ति । तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थकरान् पाण्डुकम्बलातिपाण्डुकम्बलातिरक्तकम्बला शिलासु न्यस्तसिंहासनेषु सुरेन्द्र क्रोडस्थितान् कल्पितमणिसुवर्णादिमययोजनमुख कलशाङ्गतैस्तीर्थवारिभिः
For Private & Personal Use Only
विभागः २
शान्त्यधिकारः
॥ २२३ ॥
www.jainelibrary.org