________________
Jain Education Inter
।
| दिग्वासा ममानन्दं प्रयच्छतु ॥ १ ॥” ॐ नमः कन्यायै कन्ये इह शेषं० ॥ ६ ॥ तुलांप्रति । "यो दैत्यानां महाचार्यस्तस्यावासत्वमागतः । शनेरुचत्वदातास्तु पश्चिमास्थस्तुलाधरः ॥ १ ॥ ॐ नमस्तुलाधराय तुलाधर इह शेषं० ॥ ७ ॥ वृश्चिकं प्रति । "भौमस्य तु सुखं क्षेत्रं धनदाशाविभासकः । वृश्विको दुःखसंघातं शान्तिकेऽत्र निहन्तु नः ॥ १ ॥ ॐ नमो वृश्विकाय वृश्चिक इह शेषं० ॥ ८ ॥ धन्विनंप्रति । “सर्वदेवगणार्यस्य सदनं पद| दायिनः । सुरेन्द्राशास्थितो धन्वी धनवृद्धिं करोतु नः ॥ १ ॥ ॐ नमो धन्विने धन्विन् इह शेषं० ॥ ९ ॥ मक रंप्रति । “निवासः सूर्यपुत्रस्य भूमिपुत्रोच्चताकरः । मकरो दक्षिणा संस्थः संस्था भीतिं विहन्तु नः ॥ १ ॥ ॐ नमो मकराय मकर इह शेषं० ॥ १ ॥ कुम्भंप्रति । " ग्रहशतनयस्थानं पश्चिमानन्ददायकः । कुम्भः करोतु निर्देभं पुण्यारंभं मनीषिणाम् ॥ १ ॥ ॐ नमः कुम्भाय कुम्भ इह शेषं० ॥ ११ ॥ मीनंप्रति । " कषेरुचत्वदातारं क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशापावनं मीनमुत्तमम् ॥ १ ॥ ॐ नमो मीनाय मीन इह शेषं० ॥ १२ ॥ एभिर्मन्त्रैः प्रत्येकपूजा । ततोऽनंतरं ॐ मेषवृषमिथुन कर्क सिंहकन्यातुलवृश्चिकधनमकरकुम्भमीनाः सर्वराशयः स्वस्वस्वाम्यधिष्ठिताः इहशान्तिके आगच्छन्तु २ इदमध्ये पाद्यं बलिं चरुं आचमनीयं गृह्णन्तु २ | सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० अक्षतान् फलानि० मुद्रां० पुष्पं० धूपं दीपं नैवयं० सर्वो |पचारान् शान्तिं कुर्वन्तु तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ स्वाहा । अनेन सर्वराशीनां संकुलपूजा । ततो द्वादशहस्तवस्त्रेणाच्छादनं । ततो नक्षत्रपीठे पुष्पाञ्जलिं गृहीत्वा - " नासत्यप्रमुखा
For Private & Personal Use Only
www.jainelibrary.org