________________
चतुस्त्रिंश उदयः। अथ शान्तिकाधिकारविधिः ॥ स यथा । तत्रादौ गुरुह्यगुरुर्वा सुलातः कङ्कणमुद्राङ्कितकरः सदशाव्यङ्ग-| श्वेतवस्त्रधरो भवेत् । शान्तिककारोऽपि तादृग्वेषभूषणधारी सभ्रातृपुत्रो भवेत् । गीतनृत्यवाद्यादिनारीमङ्ग-18 लगायनाचारं च प्रगुणीकुर्यात् । ततो बृहत्स्नात्रविधिनारभेत् । प्रथमं स्लानपीठे शान्तिनाथप्रतिमास्थापनम् । निश्चयेन तत्प्रतिमाया अलाभे अन्यजिनप्रतिमाया अपि शान्तिनाथप्रतिमाकल्पनम् । मन्त्रो यथा-ॐ नमोऽहयस्तीर्थकरेभ्यः सममस्त्वत्र तीर्थकरनाम पञ्चदशकर्मभूमिभवस्तीर्थकरो योऽत्राराध्यते सोऽत्र प्रतिमायां सन्निहितोऽस्तु । अनेन मन्त्रेण जिनप्रतिमायां यस्य तीर्थकरस्य कल्पना विधीयते स तीर्थकरः प्रतिमायां पूजितो भवति । अत एव वासक्षेपेणान्यप्रतिमायां शान्तिजिनकल्पना । तदनन्तरं पूर्वमहत्कल्पविधिना पूर्णी पूजां विधाय । ततो बृहत्स्नात्रविधियुक्त्या कुसुमाञ्जलिक्षेपं विध्यात् । ततो बिम्बाग्रे पवित्राणि स्वर्णरूप्यताम्रकांस्यमयानि वा सप्त पीठानि न्यसेत् । तत्र प्रथमपीठे पञ्चपरमेष्ठिस्थापनं । अक्षतैस्ति-* लकैर्वा मालाक्रमेण द्वितीयपीठे दिक्पालस्थापनं । तथैव दिक्रमेण तृतीयपीठे राशिस्थापनत्रयंत्रयं कृत्वा च. तुर्दिक्षु चतुर्थपीठे नक्षत्रस्थापनं सप्तकं २ कृत्वा चतुर्दिक्षु । पञ्चमपीठे ग्रहस्थापनं दिक्कमेण क्षेत्रपालवर्जितम् ।
१ अक्षरैः इति पाठः।
For Private & Personal Use Only
Cliw.jainelibrary.org
Jan Education Internat