SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ २१९ ॥ Jain Education Intern भागवतान्भगांश्च सवितुः शम्भोः सभस्मद्विजान् मातृणामपि मातृमण्डलविदो विप्रान्विदुर्ब्रह्मणः । शाक्यान्सर्वहितस्य शुद्धमनसो नग्ना जिनानां विदुर्ये यं देवमुपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया ॥ ४ ॥ इति प्रतिष्ठालक्षणम् । प्रासादे पूर्णनिष्पन्ने स्थापना क्रियतेऽर्हतः । विष्णोर्विनायकस्यापि देव्याः सूर्यस्य सर्वथा ॥ १ ॥ शिवस्य मूर्तियुक्तस्य द्वारेण स्यात्प्रवेशनम् । लिङ्गस्याच्छन्नप्रासादे प्रवेशो गगनाध्वना ॥ २ ॥ अर्हद्विष्णुगणाधीशसूर्यदेवीपिनाकिनाम् । क्रमात्प्रदक्षिणास्तिस्रः पञ्च यश्चैकखण्डका ॥ ३ ॥ वर्जयेदर्हतः पृष्ठिं दृष्टिं पशुपतेरपि । वैकुण्ठसूर्ययोः पाव चण्डीं सर्वत्र वर्जयेत् ॥ ४ ॥ अतः पुराद्वहिः कार्ये देव्या नूतनमालयम् । अन्यप्रासादकरणे विभाषैव प्रदर्शिता ॥ ५ ॥ कुण्डाग्रस्य च कूपस्य कोणस्य विटपस्य च । अट्टालकस्य स्तम्भस्य द्वारे वेधो विगर्हितः ॥ ६ ॥ उच्छ्रायभूमिं द्विगुणां त्यक्त्वा चैत्ये चतुर्गुणाम् । वेधादिदोषो नैव स्यादेवं त्वष्टृ मतं यथा ॥ ७ ॥ अत्युच्च त्वादेककत्वात्तथाच पृथुलाङ्गणात् । अत्युच्चपीठाद्भूपानां तद्गृहे वेध इष्यते ॥ ८ ॥ ॥ इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे प्रतिष्ठा कीर्तनो नाम त्रयस्त्रिंशत्तम उदयः ॥ ३३ ॥ ग्रन्थाग्रं ७२०५ १ पार्श्व इति पाठः । For Private & Personal Use Only विभागः २ प्रतिष्ठा 'विधिः ॥ २१९ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy