________________
अथाधिवासनाविधिः ॥२१॥ सचायम् । अधिवासनां तु वासक्षेपेण कुलाभिषेकनहस्तन्यासेन वा भवति । पूजाभूम्यधिवासने-"ॐ लल । पवित्रिताया मनकभूमौ सर्वसुरासुराः । आयान्तु पूजां गृह्णन्तु यच्छन्तु च समीहितम् ॥१॥" शयनभूम्यधिवासने-"ॐलल। समाधिसंहतिकरी सर्वविघ्नापहारिणी। संवेशदेवतात्रैव भूमौ तिष्ठतु निश्चला ॥२॥" आसनभूमौ-"ॐ लल । शेषमस्तकसंदिष्टा स्थिरा सुस्थिरमइला। निवेशभूमावत्रास्तु देवता स्थिरसंस्थितिः॥३॥" विहारभूमौ-"ॐ लल । पदे पदे निधानानां खानीनामपि दर्शनम् । करोतु प्रीतहृदया देवी विश्वंभरा मम ॥४॥" क्षेत्रभूमौ-"ॐ लल । समस्तरम्यवृक्षाणां धान्यानां सर्वसंपदाम् । निदानमस्तु मे क्षेत्रभूमिः संप्रीतमानसा ॥५॥” सर्वोपयोग्यभूमिषु च स-18 बोसु-"ॐ लल । यत्कार्यमहमत्रैकभूमौ संपादयामि च । तच्छीघ्र सिद्धिमायातु सुप्रसन्नास्तु मे क्षितिः॥६॥"| जलाधिवासने-"ॐ वव । जलं निजोपकाराय परोपकूतयेऽथवा । पूजार्थायाथ गृह्णामि भद्रमस्तु न पातकम् ॥७॥” बन्यधिवासने-"ॐ धर्मार्थकार्यहोमाय खदेहाय वाऽनलम् । संधुक्षयामि नः पापं फलमस्तु ममेहितम् ॥८॥" चुल्लयधिवासने-“ॐ रं । अग्न्यगारमिदं शान्तं भूयाद्विघ्नविनाशनम् । तद्युक्तिपाकेवान्येन पूजिताः सन्तु साधवः ॥९॥" शकट्यधिवासने-"ॐरं । सर्वदेवेष्टदानस्य महातेजोमयस्य च ।। आधारभूता शकटी वहेरस्तु समाहिता ॥१०॥" वस्त्राधिवासने-"ॐ श्रीं। चतुर्विधमिदं वस्त्रं स्त्रीनिवाससुखाकरम् । वस्त्रं देहधृतं भूयात्सर्वसंपत्तिदायकम् ॥११॥" भूषणाधिवासने-"ॐ श्रीं । मुकुटाङ्गदहारा
Jain Education Intel
For Private & Personal Use Only
X
w w.jainelibrary.org