________________
आचार
दिनकरः
॥२१६॥
Jain Education I
अथ दुर्गयन्त्रप्रतिष्ठाविधिः ॥ २० ॥ सचायम् । नवकृते दुर्गे पूर्वं चतुर्विंशतितन्तुसूत्रेण बहिरन्तः शान्तिमन्त्रेण रक्षां कुर्यात् । ततस्तन्मध्ये ईशानदिग्भागे जिनबिम्बं न्यस्य बृहत्स्नात्रविधिना स्नात्रं विधाय वृहद्द - शवलय- नन्द्यावर्तस्थापनं होमं च बिम्बप्रतिष्ठावत्कुर्यात् । ततः शान्तिकं पौष्टिकं च यथाविधि कुर्यात् । ततः शान्तिकपौष्टिक कलशजलं गृहीत्वा अन्तर्बहिश्च धारां दद्यात् । प्रतिकपिशीर्ष प्रतिकोष्टकं वासक्षेपं च कुर्यात् । धारादानवासक्षेपमत्रो यथा - ॐ ह्रीं श्रीं क्लीं ब्लूं दुर्गे दुर्गमे दुःप्रधर्षे दुःसहे दुर्गे अवतर २ तिष्ठ २ दुर्गस्योपद्रवं हर २ डमरं हर २ दुर्भिक्षं हर २ परचक्रं हर २ मरकं हर २ सर्वदा रक्षां शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु २ खाहा । एवं दुर्गप्रतिष्ठां विधाय प्रतोलीप्रतिष्ठां द्वारप्रतिष्ठां च कुर्यात् । अयं च विशेषः अधोभागे दक्षिणे ॐ अनन्ताय नमः । वामे ॐ वासुकये नमः । उपरि दक्षिणे ॐ श्रीमहालक्ष्म्यै नमः । वामे ॐ गं गणेशाय नमः । ततोऽनन्तरं दुर्गस्य मध्यभागं समागत्य गोमयानुलिप्तभूमौ ऊर्ध्वभूय कलशविधिवत् दिक्पालानाहूय शान्तिबलिं कलशविधिवद्दद्यात् । ततो नन्द्यावर्तविसर्जनं पूर्ववत् । ततः साधुपूजनं संघपूजनं च । यत्रप्रतिष्ठायां तु भैरवादियत्राणां चैकैव प्रतिष्ठा । तत्र यत्रेषु पूर्णीभूतेषु तन्मूले जिनबिम्बं न्यस्य बृहत्स्नात्रविधिना स्नात्रं विधाय तत्स्नानोदकेन मन्त्रमभिषिच्य वासक्षेपं कुर्यात् । वासक्षेपमत्रो यथा - ॐ ह्रीं षट् २ | लिहि २ ग्रन्थे ग्रन्थिनि भगवति यन्त्रदेवते इह अवतर २ शत्रून् हन २ समीहितं देहि २ खाहा । ततोऽनन्तरं अनेनैव मन्त्रेण रक्षाबन्धः ततो वैज्ञानिकसन्माननम् ॥ इति प्रतिष्ठाधिकारे दुर्गयन्त्रप्रतिष्ठाविधिः संपूर्णः ॥ २० ॥
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
॥ २१६ ॥
www.jainelibrary.org