________________
डागप्रवाहकुल्यानिर्झरतडागिकाविवरिकाधर्मजलाशयनिमित्तजलाशयेष्वियमेव प्रतिष्ठा ॥ इति जलाशयप्रतिष्ठा संपूर्णा ॥१७॥ ___ अथ वृक्षप्रतिष्ठाविधिः ॥१८॥ सचायं खवर्धिते पुरातने वा आश्रयणीयवृक्षे प्रतिष्ठा विधीयते । तन्मूले है जिनविम्ब न्यस्य बृहत्स्नात्रं कुर्यात् । लघुनन्द्यावर्तस्थापनं पूजनं होमश्च पूर्ववत् । ततो जिनस्नात्रोदकेन तीर्थ
जलमिश्रेण अष्टोत्तरशतकलशैः वृक्षमभिषिञ्चेत् । वासक्षेपश्च कौसम्भसूत्रेण रक्षाबन्धनं च । गन्धपुष्पधूपदीपनैवेद्यदानं । अभिषेकवासक्षेपरक्षामन्त्रो यथा-ॐक्षं यां रांचं चुरु २चिरि २ वनदैवत अत्रावतर २ तिष्ठ २ श्रियं देहि वाञ्छितदाता भव २ वाहा । ततः साधुपूजनं संघपूजनं नन्द्यावर्तविसर्जनं च पूर्ववत् । वाटिकारामवनदेवताप्रतिष्ठाखयमेव विधिः ॥ इति प्रतिष्ठाधिकारे वृक्षवनदेवनाप्रतिष्ठा संपूर्णा ॥ १८॥ __ अथाहालकादिप्रतिष्ठाविधिः॥१९॥ स चायं अद्यालके स्थण्डिले नवबद्धपद्यायां जिनविम्बं संस्थाप्य बृहस्नात्रविधिना स्नात्रं कुर्यात् । लघुनन्द्यावर्तस्थापनं पूजनं होमश्च पूर्ववत । ततो जिनस्नात्रोदकेन सर्वत्र अद्यालकस्थण्डिलपद्यादिप्रोक्षणं वासक्षेपश्च । प्रोक्षणवासक्षेपमन्त्रो यथा-ॐ ह्रीं स्थां २ स्थी २ भगवति भूमिमातः अत्रावतर २ पूजां गृहाण २ सर्वसमीहितं देहि २ स्वाहा । अनेनैव मन्त्रेण चतुविशतितन्तुसूत्रेण रक्षाकरणम् । गन्धपुष्पधूपदीपनैवेद्यदानं पूर्ववत । नन्द्यावर्तविसर्जनं पू० । ततोऽनन्तरं साधुपूजनं संघपूजनं च ॥ इति प्रतिष्ठाधिकारे अहालकादिप्रतिष्ठा संपूर्णा ॥१९॥
For Private &Personal use Only
O
Jan Education Intern
w.jainelibrary.org