________________
वामे गङ्गायै नमः । दक्षिणे यमुनायै नमः । इति मन्नैर्जलगन्धाक्षतपुष्पधूपदीपनैवेद्यदानपूर्व त्रिस्त्रिासक्षेपेण 18| प्रतिष्ठा । सर्वेष्वपि द्वारेष्वियमेव प्रतिष्ठा । ततोऽन्तः प्रविश्य सर्वभित्तिभागेषु ॐ अं अपवारिण्यै नमः ||
इति मन्त्रेण द्वारवत्प्रतिष्ठा । ततः शालासु द्वारेषु पूर्ववत् । स्तम्भेषु च ॐ श्रीं शेषाय नमः । सर्वस्तम्भेषु द्वारविधिना इयमेव प्रतिष्ठा। ततो मध्यशालासु द्वारेषु बहिःस्तम्भेषु भित्तिषु पूर्ववत् । तद्भूमौ च ॐ हो । मध्यदेवतायै नमः इति तद्विधिना वासक्षेपेण प्रतिष्ठा । ततोऽपवरकेषु ॐ आं श्रीं गर्भश्रिये नमः । द्वारभि-18 त्तिच्छदिस्तम्भेषु पूर्ववत् । ततः पाकशालायां ॐ श्रीं अन्नपूर्णायै नमः । कोष्ठागारेऽप्ययमेव मन्त्रः। भाण्डागारे ॐ श्रीं महालक्ष्म्यै नमः। जलागारे ॐ वं वरुणाय नमः। शयनागारे ॐ शो संवेशिन्यै नमः। देवतागारे ॐ ह्रीं नमः । उपरितनभूमिकासु सर्वासु ॐ आंकों किरीटिन्यै नमः। हस्तिशालायां ॐ श्रीं श्रिये नमः। अश्वशालायां ॐ रे रेवंताय नमः । गोमहिषीछागीवृषभशालासु ॐ ह्रीं अडनडिकिलि २ स्वाहा । आस्थान-| शालासु ॐ मुखमण्डिन्यै नमः। इति सर्वागारेषु पूर्वोक्तवासैः पूर्वोक्तद्वारे स्तम्भच्छदिभित्तिविधिना प्रतिष्ठा विधायाङ्गणमागच्छेत् । तत्र कलशप्रतिष्ठावत् दिक्पालानाहूय शांतिबलिं दद्यात् । ततोऽनंतरं शांतिकं पौष्टिकं च कुर्यात् । खगुरुखज्ञातिभ्यो भोजनतांबूलवस्त्रदानं । हट्टे ॐ श्रीवाञ्छितदायिन्यै नमः। मठे ॐ ऐंवा
ग्वादिन्यै नमः । उटजेषु ॐ ह्रीं ब्लूं सर्वायै नमः। धातुघटनशालायां ॐ भूतधात्र्यै नमः । तणागारे ॐ शों ४ शांतायै नमः। सत्रागारे पाकशालावत् । प्रपायां पानीयशालावत् । होमशालायां ॐरं अग्नये नमः । एतासु
4545425
Jain Education in
For Private & Personal use only
www.jainelibrary.org