________________
दिक्षु कनीयांसो मणयः क्रमेण बृहदक्षोपरि स्थाप्याः तन्मध्ये सार्धव्यङ्गुलः स्फटिकमयः स्थापनाचार्यः स्थाप्यः । ततः सूरिबिम्बप्रतिष्ठावद्दिक्पालानाहूय स्वस्य शुचिविद्या सकलीकरणं च पूर्ववत्कुर्यात् । ततो दक्षिणां रौद्रदृष्ट्या मध्याङ्गलिद्वयोर्कीकरणेन ॐ ह्रींक्षी सर्वोपद्रवं समवसरणस्य रक्ष २ खाहा इति रक्षां कृत्वा सर्व समवसरणं दग्धेन स्पयेत् यक्षकर्दमेन विलेपयेत् वस्त्रेणाच्छादयेत् । ततो विद्यापीठेन वारत्रयं वासक्षेपं कुर्यात । इत्यधिवासना ॥ ततः प्रतिष्ठालग्ने संप्राप्ते गुरुणा हेमकङ्कणमुद्रिका श्वेताव्यङ्गवस्त्रविभूषितेन सौभाग्य १ प्रवचन २ परमेष्ठि ३ कृताञ्जलि ४ सुरभि ५ चक्र ६ गरुड ७ आरात्रिक ८ गणधररूपेण मुद्राष्ट-16 केन मन्त्राधिराजस्य पश्चप्रस्थानस्य जापं कृत्वा प्रविश्यमानश्वासेन सकल मूलमन्त्रेण वारत्रयं धूपाद्युत्क्षेपपूर्वका वस्त्रमपनीय प्रतिष्ठा कार्या । पूर्व वासाः पञ्चविंशतिद्रव्यमया देवीप्रतिष्ठाधिकारोक्ता द्वादशमुद्राभिः मन्त्र-181 णीयाः। ततः पूर्वलब्धिपदानि पठित्वा वासक्षेपो विधेयः । ततः ॐ वग्गु इत्यारभ्य एकविद्यापीठेन सप्तवेलं वासक्षेपेण सर्वाक्षाणां प्रतिष्ठा । ततो द्वितीयविद्यापीठेन बहिर्वलयस्य चतुःपरमेष्ठियतस्य पञ्चपरमेष्टियतस्य पञ्चवेलं वासक्षेपेण प्रतिष्ठा । ततस्तृतीयविद्यापीठेन मध्यवलयस्य त्रिवेलं वासक्षेपेण प्रतिष्ठा । ततश्चतुर्थविद्यापीठेन मध्यवलयस्य मुख्यपरमेष्ठियुतस्य एकवेलं वासक्षेपेण प्रतिष्ठा । ततो मूलमन्त्रस्य शतपत्रपुष्पैः शा ल्यक्षतर्वा अष्टोत्तरशतजापः। ततः समवसरणस्तोत्रेण परमेष्ठिमन्त्रस्तोत्रेण चैत्यवन्दनं । ततो दिक्पालविसर्जनं पूर्ववत् । ततः ॐ विसर २ प्रतिष्ठादेवते स्वस्थानं गच्छ २ स्वाहा । अनेन प्रतिष्ठादेवताविसर्जनम् ।।
LoCOCOCC AC------
Jan Education Internat
For Private & Personal Use Only
A
w.jainelibrary.org