SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ २१२ ॥ Jain Education Inter अत्र समवसरणं पूजनं गोप्यतया नोक्तं सूरिमन्त्रकल्पादवसेयम् ॥ इति प्रतिष्ठाधिकारे देवतावसरसमवसरणप्रतिष्ठा संपूर्णा ॥ १० ॥ अथ मन्त्रप्रतिष्ठाविधिः ॥ ११ ॥ स चायम् । तत्र मन्त्रपट्टा धातुमयाः स्वर्णरूप्यताम्रघटिताः काष्ठमया वा मिलितेन पञ्चामृतेन संस्स्राप्य गन्धोदकेन शुद्धोदकेन प्रक्षाल्य यक्षकर्दमेनानुलिप्य पञ्चविंशतिवस्तुरूपवासक्षेपेण प्रतिष्ठा करणीया । वासक्षेपमन्त्रन्यासो यथालिखितमन्त्रपाठेनैव । उत्कीर्णमूतौ च ॐ ह्रीं अमुकदेवाय अमुकदेव्यै वा नमः इति मन्त्रन्यासः । वस्त्रमये पमये लिखितचित्रमूर्ती लिखितयत्रे वा समवसरणे वा भरिते वा तल्लिखितमन्त्रपाठेन तद्देवगर्भनमस्कारेण वा वासक्षेपमात्रेण प्रतिष्ठा पूर्यते । अत्र परमार्थेन स्नपनवर्जितेषु पट्टादिषु दर्पणबिम्बेषु स्नपनादि विधेयम् । स्नपनादिरहिता प्रतिष्ठा अप्रमाणा ॥ इति प्रतिष्ठा|धिकारे मपप्रतिष्ठा संपूर्णा ॥ ११ ॥ अथ पितृमूर्तिप्रतिष्ठाविधिः ॥ १२ ॥ सचायम् । गृहिणां पितृमूर्तयः प्रासादस्थापिताः शैलमय्यो भवन्ति । गृहपूजितास्तु धातुमय्यः पट्टिकास्थापिता वा पट्टलिखिता वा भवन्ति । कण्ठपरिधेयारिछच्छरिकारूपा नामाङ्किता वा भवन्ति तासां सर्वासां एक एव प्रतिष्ठाविधिः । वृहत्स्नात्रविधिना जिननात्रं विधाय तत्स्ना - त्रोदकेन त्रिविधामपि पितृमूर्ति रूपयेत् । ततो गुरुर्वासक्षेपेण तन्मूर्तिषु तन्मन्त्रन्यासं कुर्यात् । प्रतिष्ठामत्रो यथा - ॐ नमो भगवते अरिहंते जिणस्स महाबलस्स महाणुभावस्स सिवगइगयस्स सिद्धस्स बुद्धस्स अक्ख For Private & Personal Use Only विभागः २ प्रतिष्ठा विधिः ॥ २१२ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy