________________
रागचन्दनरक्तचन्दनश्वेतार्कमूलप्रभृतिवस्तुमय्यो विविधा विविधफलदायिन्यः सुखसंतुष्टा भवन्ति तासां ।। प्रभावो गूढो गुर्वागमादवसेयः। प्रतिष्ठा चोक्तपूर्वमूलमन्त्रेण माक्षिकस्लानम् । मूलमन्त्रो यथा-ॐ गांगी गूं गौं गः गणपतये नमः। ततो वासस्थाने सिन्दूरेणैव प्रतिष्ठा सर्वाङ्गेषु त्रिस्त्रिः मूलमन्त्रेणैव । ततोऽष्टोत्तरशतमोदकढौकनम् । एवं प्रतिष्ठां विधाय अञ्जलिं कृत्वा स्तुतिं पठेत् । यथा-"जयजय लम्बोदर परशुवरदयुक्तापसव्यहस्तयुग । सव्यकरमोदकाभयधरयावकवर्णपीतलसिक ॥१॥ मूषकवाहनपीवरजङ्घाभुजबस्तिलम्बिगुरुजठरे । वारणमुखैकरद वरद सौम्य जयदेव गणनाथ ॥२॥ सर्वाराधनसमये कार्यारम्भेषु मङ्गालाचारे। मुख्ये लभ्ये लाभे देवैरपि पूज्यसे देव ॥३॥" माणुधणादीनां श्राद्धकुलदेवतानां एवमेव प्रतिष्ठा ब्रह्मशा|न्तिमन्त्रेण ॥ इति प्रतिष्ठाधिकारे गणपत्यादिप्रतिष्ठा संपूर्णा ॥८॥ | अथ सिद्धमूर्तिप्रतिष्ठाविधिः॥९॥ सचायम् । तत्र सिद्धाः पञ्चदशभेदाः जिनशासने । तत्र स्खलिङ्गसिद्धानां स्त्रीनरनपुंसकरूपाणां पुण्डरीकब्राह्मीप्रभृतीनां परलिङ्गसिद्धानां वल्कलचीरीप्रभृतीनां स्त्रीनरनपुंसकरूपाणां मत्स्येन्द्रगोरक्षादीनां प्रतिष्ठाविधिरेक एव । तत्र यदि तेषां प्रतिष्ठां गृही कारयति तदा तद्गृहे शान्तिकं पौष्टिकं कुर्यात् । ततो बृहत्स्नात्रविधिना लात्रं विधाय प्रतिष्ठां कुर्वीत । ततो मूलमन्त्रेण सिद्धमूर्तेः| पञ्चामृतस्नात्रं विधाय ततो मूलमन्त्रेणैव वासक्षेपं कुर्यात् त्रिस्त्रिः सर्वाङ्गेषु । मूलमन्त्रो यथा-ॐ अंआंहीं नमो सिद्धाणं वुद्धाणं सर्वसिद्धाणं श्रीआदिनाथाय नमः तथा तत्तल्लिङ्गसिद्धानां प्रतिष्ठायां तत्तल्लिङ्गधराणां
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org