SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ CADACOCCASNAACC श्रितं जलकलशं गृहीत्वा-"सौषधिमयं नीरं नीरं सद्गुणसंयुतम् । भगवत्यभिषेकेऽस्मिन्नुपयुक्तं श्रियेऽस्तु नः ॥५॥" मांसीचूर्ण गृहीत्वा-"सुगन्धं रोगशमनं सौभाग्यगुणकारणम् । इह प्रशस्तं मांस्यास्तु मार्जनं हन्तु दुष्कृतम् ॥६॥" पुनश्चन्दनचूर्ण गृहीत्वा-"शीतलं शुभ्रममलं धुततापरजोहरम् । निहन्तु सर्वप्रत्यूह चन्दनेनाङ्गमार्जनम् ॥७॥” पुनः कुङ्कुमचूर्ण गृहीत्वा-"कश्मीरजन्मजैश्चर्णैः खभावेन सुगन्धिभिः । प्रमा|जेंयाम्यहं देव्याः प्रतिमां विघ्नहानये ॥ ८॥" एवं स्लानपञ्चकं प्रमार्जनत्रयं कृत्वा देव्याः पुरः स्त्रीजनोचितं सर्व वस्त्रभूषणगन्धमाल्यमण्डनादि दौकयेत् । नैवेद्यं यहप्रकारं च । ततः प्रतिष्ठायां परिपूर्णायां मण्डलविसर्जनं नन्द्यावर्तविसर्जनवत् । ततः कन्यापूजनं गुरुभ्यो दानं महोत्सवः संघपूजा महाप्रतिष्ठावत् । इयं च प्रतिष्ठा देवीनां प्रासादसंप्रदायकुलदेवीनां त्रिविधानामपि पूजनं गुर्वागमात् कुलाचाराज्ज्ञेयम् । ग्रंथविस्तरभयात् आगमस्य अप्रकाश्यत्वात् नोपदर्शितम् । यदुक्तम्-"इदमागमसर्वखं गोपनीयं प्रयत्नतः । गोपनाजायते सिद्धिः संशयश्च प्रकाशनात् ॥१॥” तथा सर्वदेवानां प्रतिष्ठा तत्तद्देवीमन्त्रण तत्सत्कल्पोक्तेन गुरूपदिष्टेन वा विधेया। शेषं कर्म सर्वदेवीप्रतिष्ठासु सदृशम् । यासां च देवीनां अप्रसिद्धत्वात् कल्पादर्शनात् गुरूपदेशाभावात् नामोद्दिष्टो मन्त्रो न ज्ञायते तासां अम्बामन्त्रेण वा चण्डीमन्त्रण वा त्रिपुरामन्त्रेण वा प्रतिष्ठा विधेया । अत्र देवीप्रतिष्ठायां शासनदेवीगच्छदेवीकुलदेवीपुरदेवीभुवनदेवीक्षेत्रदेवीदुर्गादेवीनां सर्वासामेक एव प्रतिष्ठाविधिः ॥ इति प्रतिष्ठाधिकारे देवीप्रतिष्ठा संपूर्णा ॥६॥ AGRAARCAUS-CASC Jan Education Intern For Private & Personal use only Sow.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy