SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आ. दि. ३६ Jain Education Interna पुनः पुष्पाञ्जलिं गृहीत्वा - " यस्याः प्रौढदृढप्रभावविभवैर्वाचंयमाः संयमं निर्दोषं परिपालयन्ति कलयन्त्यन्यकलाकौशलम् । तस्यै नम्रसुरासुरेश्वरशिरः कोटीर तेजइछटा कोटिस्पृष्टशुभाङ्गये त्रिजगतां मात्रे नमः सर्वदा ॥ १ ॥ अनेन वृत्तेन पुष्पाञ्जलिक्षेपः ॥ २ ॥ पुनः पुष्पाञ्जलिं गृहीत्वा - "न व्याधयो न विपदो न महान्तराया नैवायशांसि न वियोगविचेष्टितानि । यस्याः प्रसादवशतो बहुभक्तिभाजामाविर्भवन्ति हि कदाचन सास्तु लक्ष्म्यै ॥ १ ॥" अनेन वृ० ॥ ३ ॥ पुनः - "दैत्यच्छेदोद्यतायां परमपरमतत्रोधबोधप्रबोधक्रीडानित्रडपीडाकरणमशरणं वेगतो धारयन्त्या । लीलाकीला कर्पूरजनिनिजनिजक्षुत्पिपासाविनाशः क्रव्यादामास यस्यां विजयमविरतं सेश्वरा वस्तनोतु ॥ १ ॥” अनेन वृ० ॥ ४ ॥ पुनः - " लुलायदनुजक्षयं क्षितितले वि धातुं सुखं चकार रभसेन या सुरगणैरतिप्रार्थिता । चकार रभसेन या सुरगणैरतिप्रार्थिता तनोतु शुभमुत्तमं | भगवती प्रसादेन सा ॥ १ ॥" अनेन वृत्तेन० ॥ ५ ॥ पुनः- “सा करोतु सुखं माता बलिजित्तापवारिणी । प्राप्यते यत्प्रसादेन बलिजित्तापवारिणी ॥ १ ॥ अनेन वृ० ॥ ६ ॥ पुन: पु० - "जयन्ति देव्याः प्रभुतामतानि निरस्तनिः संचरतामतानि । निराकृताः शत्रुगणाः सदैव संप्राप्य यां मंक्षु जयै सदैव ॥ १ ॥" अनेन वृ० ॥ ७ ॥ पुनः – “सा जयति यमनिरोधनकर्त्री संपत्करी सुभक्तानाम् । सिद्धिर्यत्सेवायामत्यागेऽपि हि सुभक्तानाम् ॥ १ ॥" अनेन वृ० ॥ ८ ॥ एवमष्ट पुष्पाञ्जलयः प्रक्षिप्यन्ते । ततो देवीपुरतो भगवत्या मण्डलं १ प्रयोध इति पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy