________________
आचार- पीठं संस्थाप्य तदुपरि देवीप्रतिमां न्यसेत् । स्थिरप्रासाददेवीप्रतिमां तु कुलपीठोपरि पञ्चरत्नन्यासपूर्वकं न्य-15 विभागः २ दिनकरःसेत् । ततः कुडव २ मात्रमिलितैः सर्वान्नैर्देवीप्रतिमां संवर्धयेत् । मत्रो यथा-ॐ श्रीं सर्वान्नपूर्णे सर्वान्ने प्रतिष्ठास्वाहा । ततः स्नात्रकारचतुष्टयं पूर्वोक्तलक्षणं प्रगुणीकुर्यात् । सूरिणा आत्मा स्नात्रकाराश्च मुद्राकरणसहि
विधिः ॥२०६॥
तसदशवस्त्रसहिता विधेयाः। ततः खस्य तेषां च व्यङ्गरक्षान्यासो यथा-ॐ ह्रीं नमो ब्रह्माणि हृदये । ॐ ह्रीं नमो वैष्णवि भुजयोः । ॐ ह्रीं नमः सरस्वति कण्ठे । ॐ ह्रीं नमः परमभूषणे मुखे । ॐ ह्रीं नमः सुगन्धे नासिकयोः । ॐ हीं नमः श्रवणे कर्णयोः । ॐ ह्रीं नमः सुदर्शने नेत्रयोः । ॐ ह्रीं नमो भ्रामरि भ्रुवोः । ॐ नमो महालक्ष्मि भाले । ॐ हीं नमः प्रियकारिणि शिरसि । ॐ हीं नमो भुवनखामिनि शिखायां । ॐ ह्रीं नमो विश्वरूपे उदरे । ॐ ह्रीं नमः पद्मवासे नाभौ । ॐ ह्रीं नमः कामेश्वरि गुह्ये । ॐ ह्रीं नमो विश्वोत्तमे ऊर्वोः । ॐ ह्रीं नमः स्तम्भिनि जान्वोः। ॐ ह्रीं नमः सुगमने जङ्घयोः । ॐ ह्रीं नमः परमपूज्ये पादयोः। ॐ ह्रीं नमः सर्वगामिनि कवचम् । ॐ ह्रीं नमः परमरौद्रि आयुधं । इति गुरुः खस्य लात्रकाराणां च अङ्गरक्षां कुर्यात् । ततः पञ्चगव्येन देवीस्नात्रम् । वृत्तम्-"विश्वस्यापि पवित्रतां भगवती प्रौढानुभावैर्निजैः संधत्ते कुशलानुबन्धकलिता मामरोपासिता । तस्याः स्नात्रमिहाधिवासनविधौ सत्पश्चगव्यैः कृतं नो दोषाय महाजनागमकृतः पन्थाः प्रमाणं परम् ॥१॥” ततः पुष्पाञ्जलिं गृहीत्वा-"सर्वाशापरिपूरिणि निजप्रभावै- ॥२०६॥ यशोभिरपि देवि । आराधनकर्तृणां कर्तय सर्वाणि दुःखानि ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः ॥१॥
Jain Education Inter
For Private & Personal Use Only
W
w w.jainelibrary.org