________________
ॐ श्रीं शङ्खधराय नमः इति शङ्खधरे वासक्षेपस्त्रिस्त्रिः । ॐ पूर्णकलशाय नमः इति कलशे वासक्षेपस्त्रिस्त्रिः। ततः अनेकफलनैवेद्यढौकनं । पुनर्जिनलानं बृहत्लाविधिना ततश्चैत्यवन्दनं प्रतिष्ठादेवताविसर्जनं कायोत्सर्ग चतुर्विंशतिस्तवचिंतनं भणनं च नन्द्यावर्तविसर्जनं पूर्ववत् । अष्टाहिकामहोत्सवः संघपूजनं दीनमागणपोषणं । जलपप्रतिष्ठायां तु जलपट्टोपरि बृहन्नन्द्यावर्तस्थापनं च पूर्ववत् । जलपट्टे क्षीरलानं पञ्चरत्ननिक्षेपः वस्त्रमन्त्रेण वासक्षेपः नन्द्यावर्तविसर्जनं ॥ इति कलशप्रतिष्ठा ॥ ॥ तोरणप्रतिष्ठायां तु बृहत्वात्रविधिना जिनस्तात्रं मुकुटमन्त्रेण तोरणे द्वादशमुद्राभिमंत्रितवासक्षेपः । मुकुटमन्त्रो यथा-ॐ अआइईउऊऋऋ इत्यादिहकारपर्यन्तं नमो जिनाय सुरपतिमुकुटकोटिसंघहितपदाय इति तोरणे समालोकय २ स्वाहा ॥ इति तोरणप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे परिकरप्रतिष्ठाविधिः संपूर्णः॥५॥ | अथ देवीप्रतिष्ठाविधिः॥६॥ स चायम् । तत्र देव्यस्त्रिधा प्रासाददेव्यः १ संप्रदायदेव्यः २ कुलदेव्यश्च
३। प्रासाददेव्यः पीठोपपीठेषु क्षेत्रोपक्षेत्रेषु गुहास्थिता भूमिस्थिताः प्रासादस्थिता लिङ्गरूपा वा स्वयंभूत| रूपा वा मनुष्यनिर्मितरूपा वा । संप्रदायदेव्यः अम्बासरखतीत्रिपुराताराप्रभृतयो गुरूपदिष्टमन्त्रोपासनायाः। कुलदेव्यः चण्डीचामुण्डाकण्टेश्वरीसत्यकासुशयनाव्याघ्रराजीप्रभृतयः एतासां प्रतिष्ठा तुल्यैव । तत्र प्रतिष्ठाकारयितुर्ग्रहशान्तिकं पौष्टिकं च कुर्यात् । ततः प्रासादे गृहे वा बृहत्स्नात्रविधिना स्नानं । देवीप्रासादे ग्रहप्रतिमा नीत्वा स्नात्रं कुर्यात् । ततः पूर्वोक्तरीत्या भूमिशुद्धिं विधाय पञ्चरत्नं तत्र न्यस्य तदुपरि कदम्बकाष्ठ
Jan Education Internat
For Private & Personal Use Only
F
w.jainelibrary.org