________________
आचार
दिनकरः
॥ २०५ ॥
Jain Education Intern
| राकारो यथा । बिम्बाधो गजसिंह की चरूपाङ्कितं सिंहासनं पार्श्वयोश्चमरघरौ तयोर्बहिश्राञ्जलिकरौ मस्तकोपरिक्रमोपरि तु छत्रत्रयं तत्पार्श्वयोरुभयोः काञ्चनकलशाङ्कितशुण्डाग्रं श्वेतगजद्वयं गजोपरि झर्झरवाद्यकराः पुरुषाः तदूर्ध्वयोः मालाकारौ शिखरे शङ्खध्माः तदुपरि कलशः । मतान्तरे सिंहासनमध्यभागे हरिणद्वयतो| रणाङ्कितधर्मचक्रं तत्पार्श्वयोः ग्रहमूर्तयः । एवं निष्पन्ने परिकरे बिम्बप्रतिष्ठोचिते लग्ने भूमिशुद्धिकरणं अमारिघोषणं संघाह्नानं बृहत्स्नात्रविधिना जिनस्नात्रं तत्पूजनं कलशपूजावत् । ततः परिकरे सप्तधान्यवर्धापनम् अङ्गुलिद्वयोर्श्वीकरणेन रौद्रदृष्ट्या वामहस्तचुलुकेन जलाच्छोटनं अक्षतभृतपात्रदानम् । ततः ॐ ह्रीं श्रीं जयन्तु जिनोपासकाः सकला भवन्तु खाहा । इति मन्त्रेण परिकरस्य गन्धाक्षतपुष्पधूपदीपनैवेद्यैः पूजनं सदशवस्त्रेणाच्छादनं ततश्चतसृभिः स्तुतिभिश्चैत्यवन्दनं ततः शान्तिश्रुतक्षेत्रभुवनशासनवैयावृत्तकरप्रतिष्ठादेवताकायोत्सर्गाः स्तुतयः पूर्ववत् । ततः संप्राप्तायां लग्नवेलायां द्वादशभिर्मुद्राभिः सूरिमत्रेण वासमभिमन्य सर्वजनं दूरतः कृत्वा एभिर्मन्त्रैर्वासक्षेपं विदध्यात् । मत्रो यथा-ॐ ह्रीं श्रीं अप्रतिचक्रे धर्मचक्रायनमः इति धर्मचक्रे वासक्षेपत्रिः । ॐ घृणिचद्रां ऐं क्षौ ठः ठः क्षां क्षीं सर्वग्रहेभ्यो नमः इति ग्रहेषु वासक्षेपत्रिः । ॐ ह्रीं श्रीं आधाशक्तिकमलासनाय नमः इति सिंहासने वासक्षेपत्रिः । ॐ ह्रीं श्रीं अर्हक्तेभ्यो नमः इति अञ्जलिकरद्वये वासक्षेपत्रिस्त्रिः । ॐ ह्रीं चं चामरकरेभ्यो नमः इति चामरकरद्वये वासक्षेपत्रित्रिः । ॐ ह्रीं विमलवाहनाय इति गजद्वये वासक्षेपत्रिस्त्रिः । पुर २ पुष्पकरेभ्यो नमः इति मालाधरद्वये वासक्षेपस्त्रिस्त्रिः
For Private & Personal Use Only
विभागः २
प्रतिष्ठाविधिः
॥ २०५ ॥
www.jainelibrary.org