________________
Jain Education Intern
ग्रतो नीयते । तत्र कुङ्कुमरसेन मायाबीजं लिख्यते तदन्तश्च कुङ्कुमेनानुरज्यते तत्प्रान्ते पञ्चरत्नं बध्यते सूरिमन्त्रेण वासक्षेपश्च विधेयः । ततो महाध्वजाधिरोपणम् ॥ ॥ अथ राजध्वजाः मत्स्यसिंहवानरकलशगजवरत्रातालचामरदर्पणचक्रमण्डलाङ्किताः बहुभेदाः तेषां च प्रतिष्ठा नृपगृहे विधेया । तत्र पौष्टिककरणं बृहस्नात्रविधिना गृह बिम्बे स्नात्रं वृहद्दशवलयनन्द्यावर्तस्थापनं पूजनं च जिनबिम्बप्रतिष्ठावत् । ततः संपूर्णनिष्पन्नं ध्वजं पूर्ववत् शोधितायां पञ्चरत्नगर्भितायां पृथिव्यामूर्ध्वाकुर्यात् । ततस्तन्मूले अनेकनैवेद्य फलमुद्राढौकनं । ततो वासान् गृहीत्वा सूरिपदोचिताभिर्द्वादशमुद्राभिर्वर्धमानविद्यया अभिमन्त्रयेत् । ततो ध्वजप्रतिष्ठामन्त्रेण अष्टोत्तरशतवारं वासक्षेपं कुर्यात् । मन्त्रो यथा - ॐ जये २ जयन्ते अपराजिते ह्रीं विजये अनिहते अमुम् अमुकचिह्नाङ्कितं ध्वजम् अवतर २ शत्रुविनाशं जयं यशो देहि २ खाहा । ततो गन्धाक्षतपुष्पधूपदीपनैवेद्यैः ध्वजपूजनं ॐ जये गन्धं गृहाण २ एवम् अक्षतान् पुष्पं धूपं दीपं नैवद्यं गृहाण शान्तिं तुष्टिं जयं कुरु २ खाहा इति सर्वपूजा दानम् । ततो दिनत्रयं ध्वजरक्षणं महोत्सवराजप्रतिष्ठाकारकाय गृह्यगुरवे स्वर्णाभरणवस्त्रादि दद्यात् । दीनोद्धरणं माहनपोषणं । ततस्तृतीयेहि ध्वजापनयनं जयादेवीविसर्जनं नन्यावर्तविसर्जनं च पूर्ववत् ॥ इति नृपध्वजप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे ध्वजप्रतिष्ठाविधिः संपूर्णः ॥ ४ ॥
अथ जिनबिम्बपरिकर प्रतिष्ठाविधिः ॥ ५ ॥ स चायं यदि जिनबिम्बेन सह परिकरो भवति तदा जिनबिम्बप्रतिष्ठायामेव वासक्षेपमात्रेण परिकरप्रतिष्ठा पूर्यते । पृथग्भूते परिकरे पृथक्प्रतिष्ठा विधीयते । परिक
For Private & Personal Use Only
www.jainelibrary.org