________________
आचार
दिनकरः
२०४ ॥
Jain Education Inter
वासपुष्पधूपाधिवासनं वस्त्रस्यापनयनं ततो वंशे ध्वजपहारोपणं ध्वजस्यारोपितपदस्य चैत्यपार्श्वे त्रिः प्रदक्षि णाकरणं ततः प्रासादशिखरे पुष्पाञ्जलिक्षेपः कलशस्त्रपनम् । वृत्तम् - " कुलधर्मजातिलक्ष्मीजिनगुरुभक्तिप्र| मोदितोन्नतिदे । प्रासादे पुष्पाञ्जलिरयमस्मत्करकृतो भूयात् ॥ १ ॥" अनेन पुष्पाञ्जलिक्षेप: । “ चैत्याग्रतां प्रपन्नस्य कलशस्य विशेषतः । ध्वजारोपविधौ स्नानं भूयाद्भक्तजनैः कृतम् ॥ १ ॥" अनेन वृत्तेन शिखरे कलशस्त्रपनम् । ध्वजगृहे पञ्चरत्ननिक्षेपः । सर्वग्रहदृष्टे शुभे लग्ने शुभांशके ध्वजनिक्षेपः । सूरिमन्त्रेण वासनिक्षेपः । फलं जातिसप्तधान्यवलिमोरिण्डकमोदकादिवस्तूनां प्रभूतानां प्रक्षेपणम् । महाध्वजस्य ऋजुगत्या दक्षिणकरे प्रतिमाया बन्धनम् । प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या । संघार्चनम् अष्टाहिका पूजा । ततो विषमदिने त्रिपञ्चसप्तसंख्ये जिनपूजनं कृत्वा बृहत्स्ना विधिना भूतबलिं दत्त्वा चैत्यवन्दनं विधाय शान्ति १ श्रुत २ क्षेत्र ३ भुवन ४ शासन ५ समस्तवैयावृत्तकर कायोत्सर्गस्तुतिदानं विधाय महाध्वजस्य छोटनम् । ततः पूर्ववत् नन्द्यावर्तविसर्जनं साधुभ्यो वस्त्रान्नपानदानं यथाशक्त्या मार्गणदीनपोषणं । ध्वजरूपं यथा - “विग्रैवेयक शिखरः प्रमाणमानो ध्वजस्य वै दण्डः । दण्डतृतीयांशोनो भवति तथा ध्वजपटोर्घपृथुः ॥ १ ॥ शुभ्रो वा रक्तो वा विचित्रवर्णोथवासघंटाभृत् । ध्वजदण्डः स्वर्णमयो वंशमयो वाऽन्यमयः ॥ २ ॥” पताकाप्रतिष्ठायां तु सूरिमश्रेण वासक्षेपश्च विधेयः चन्दनचचनं पुष्पारोपणं चेति । महाध्वजप्रतिष्ठायां तु बिम्ब परिकरशिखरमारभ्य समण्डपं प्रासादमन्तरवगाह्य पुनर्बहिः परिवृत्य ध्वजदण्डाश्लेषी महाध्वजः । स च जिना
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
www.jainelibrary.org