________________
Jain Education Internatio
पूर्ववत् । ततो वंशे कुसुमाञ्जलिक्षेपः । वृत्तम् । “रत्नोत्पत्तिर्वहु सरलता सर्वपर्वप्रयोगः सृष्टोच्चत्वं गुणसमुदयो मध्यगम्भीरता च । यस्मिन्सर्वा स्थितिरतितरां देवभक्तप्रकारा तस्मिन्वंशे कुसुमविततिर्भव्यहस्तोद्गतास्तु ॥ १ ॥ चन्दनचचनं पुष्पादिभिः पूजनं हिरण्यगर्भितजलकलशलानानि कलशवत् । ततः क्रमेण कर्पूर १ पञ्चरत्नचूर्ण २ कस्तूरी ३ गोशृङ्गचतुष्पथराजद्वारवल्मीकमृत्तिका ४ मूल्य ५ गरु ६ सहस्रमूली ७ गन्ध ८ वास ९ चन्दन १० कुङ्कुम ११ तीर्थोदक १२ कनकमिश्रजल १३ कलशैः पूर्वैरेव वृत्तेर्ध्वजनामाङ्कितैः ध्वजदण्डस्य स्नात्रम् । ततः पञ्चामृतस्नात्रम् । ततो बृहत्स्नात्रविधिकाव्यैरेव । ततो वंशस्य चन्दनेन चर्चनं पुष्पारोपणं धूपदानं बृहत्स्त्रात्रविधिकाव्यैरेव । ऋद्धिवृद्धि सर्षपमदनफलरूपकङ्कणबन्धो बिम्बप्रतिष्ठावत् । नन्यावर्तपूजनं । प्राप्तायां लग्नवेलायां सदशवस्त्रेण वंशस्याच्छादनं । पञ्चमुद्रान्यासः कलशवत् । चतुर्भिः स्त्रीभिनिरुंछनकरणम् । ततो ध्वजपट्टाधिवासनं वासधूपादिप्रदानतः । ॐ श्रींठः अनेन ध्वजवंशस्याभिमन्त्रणम् । ततो जववारफलजातिबलिनैवेद्यढौकनम् । आरात्रिकावतरणं । ध्वजसामाङ्कितकलशारात्रिकवृत्तेन । पुनर|धिकृत जिनस्तुत्या चैत्यवन्दनम् । ततः शान्तिनाथस्याराधनार्थं करेमि काउस्सगं । वन्दणं अन्नत्थ० यावत् अप्पाणं वो० चतुर्विंशतिस्तवचिन्तनं पारयित्वा स्तुतिपाठः । यथा - श्रीमते शान्तिना० ॥ १ ॥ ततः श्रुत० १ शान्तिदेवी २ शासनदेव्य ३ म्बिका ४ क्षेत्रदेव्य ५ धिवासनदेवी ६ समस्तवैयावृत्यकर ७ कार्योत्सर्गस्तुतयः पूर्ववत् । ततः उपविश्य शक्रस्तवपाठः वृहच्छान्तिस्तवभणनं बलिदाने सप्तधान्यं फलजातिदानं
For Private & Personal Use Only
w.jainelibrary.org