________________
“यत्पूतं भुवनत्रयसुरासुराधीशदुर्लभं वर्ण्यम् । हेम्ना तेन विमिनं कलशे स्नानं भवत्वधुना ॥१॥" ततः सर्वोषधि १ मूलिका २ गन्धोदक ३ वासोदक ४ चन्दनोदक ५ कुङ्कुमोदक ६ कर्पूरोदक ७ कुसुमोदक ८ भरितैः कलशैः स्नात्रवृत्तैरेव किन्तु वृत्तमध्ये जिनबिम्बस्थाने कलशकुम्भइत्यागुच्चारणं विधेयम् । ततः पञ्चरत्नसिद्धार्थसमेतरक्षापोहलिकाबन्धः पूर्ववत् । ततः ॐ अर्हत्परमेश्वराय इहागच्छतु २ अनेन मन्त्रेण वामहस्तधृतदक्षिणकरेण कलशं चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफलऋद्धिवृद्धियुतबन्धनम् । कलशे धूपदानं पूर्ववत् । कङ्कणवन्धनं । ततः स्त्रीभिर्निरंछनकरणम् । सुरभिमुद्रा १ परमेष्ठिमुद्रा २ गरुडमुद्रा ३ अञ्जलिमुद्रा ४ गणधरमुद्रा ५ दर्शनम् । सूरिमन्त्रेण वारत्रयमधिवासनं । ॐ स्थावरे तिष्ठ तिष्ठ वाहा अनेन वस्त्राच्छादनम् । तदुपरि पूर्ववत् जम्बीरादिफलसप्तधान्यकपुष्पपत्रपरिक्षेपः । ततः कलशस्यारात्रिकावतरणं । वृत्तं यथा "दुष्टसुरासुररचितं नरैः कृतं दृष्टिदोषज विघ्नम् । तद्गच्छत्वतिदूरं भविककृतारात्रिकविधानः ॥१॥" चैत्यवन्दनं । ततोऽधिवासनादेव्या आराधनानिमित्तं करेमिकाउस्सग्गं अन्नच्छ० यावत् अप्पा. चतुर्विश
तिस्तवचिन्तनं पारयित्वा अधिवासनदेवीस्तुतिकथनं पूर्ववत् । किंतु जैनबिम्बस्थाने जैनकलशे इति कथनी-3 दयम् । ततः शान्तिदेव्यम्बिकादेवीसमस्तवैयावृत्यकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततः पुनः पूर्ववत्
शान्तिबलिदानं शक्रस्तवेन चैत्यवन्दनं बृहच्छान्तिस्तवभणनं प्रतिष्ठादेवताराधनार्थ करेमि काउस्सग्गं कायोत्सर्गश्चतुर्विंशतिस्तवचिन्तनं चतुर्विशतिस्तवभणनं । यदधिष्ठिताः प्रतिष्ठा० इति स्तुतिपाठः । सूरिः।
GADGAONKARACHAR
For Private & Personal Use Only
Jan Education in
www.jainelibrary.org