________________
आचार
दिनकरः
॥ २०२ ॥
Jain Education Inter
1
| देवकुलिकामण्डपिकाकलशध्वजगृह बिम्बप्रतिष्ठा कारयितॄणां नृणां याज्यानां गृहे पूर्वमेव शान्तिकं पौष्टिकं च कुर्यात् । तथा नन्द्यावर्तपूजनानन्तरं सर्वदिक्षु दिक्पालनामग्रहणपूर्वकं शान्तिबलिं दद्यात् । यथा ॐ इन्द्राय नमः ॐ इन्द्र इह कलशप्रतिष्ठायां इमं बलिं गृहाण २ स्थपकस्थापककर्तॄणां संघस्य जनपदस्य शान्ति तुष्टिं पुष्टिं कुरु २ खाहा । एवं सर्वदिक्पालानां सर्वद्गिभिमुखं बलिदानं । तत्र बलिदाने पूर्व जलचुलुकक्षेपः पञ्चाद्गन्धछटा ततः पुष्पक्षेपः ततो राद्वसप्तधान्यक्षेपः अनेनैव मन्त्रेण सर्वेषाम् ॐ अग्नये नमः ॐ अनये इत्यादि सर्वेषाम् । पूर्वोक्ताभिः स्त्रीभिः पूर्वोक्त सर्वोषधिवर्तनम् । स्नात्रकारप्रगुणीकरणं पूर्ववत् । सकलीकरणं पूर्ववत् । स्वस्य स्नात्र काराणां च शुचिविद्यारोपणं पूर्ववत् । ततो देवाग्रे चैत्यवन्दनं चतसृभिः स्तुतिभिः | शान्तिदेवताश्रुत देवताशा सनदेवताक्षेत्र देवता समस्त वैयावृत्य करकायोत्सर्गाः स्तुतयश्च पूर्ववत् । पुष्पाञ्जलिं गृहीत्वा । "पूर्ण येन सुमेरुशृङ्गसदृशं चैत्यं सुदेदीप्यते यः कीर्ति यजमानधर्मकथनप्रस्फूर्जितां भाषते । यः स्पर्धा कुरुते जगत्रयमहीदीपेन दोषारिणा सोऽयं मङ्गलरूपमुख्यगणनः कुम्भश्चिरं नन्दतु ॥ १ ॥” अनेन वृ| तेन कलशे पुष्पाञ्जलिप्रक्षेपः । तदनन्तरम् आचार्येण मध्याङ्गुलिद्वयोर्ध्वकरणेन तर्जनीमुद्रा रौद्रदृष्ट्या देया । तदनु वामकरे जलं गृहीत्वा कलश आच्छोदनीयः । ततः कलशस्य चन्दनेन तिलकं पुष्पादिभिः पूजनं ततो मुद्गरमुद्रादर्शनं । ततः ॐ ह्रींक्षांसर्वोपद्रवं रक्ष रक्ष स्वाहा । अनेन मन्त्रेण कण्ठे हस्तस्पर्शेन कलशस्य चक्षूरक्षा कलशोपरि सप्तधान्यकप्रक्षेपः पूर्ववत् । ततो हिरण्यगर्भितकलशचतुष्टयेन कलशस्य स्नानम् । वृत्तम् ।
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
www.jainelibrary.org