________________
**********
ततः प्रतिष्ठादेवताविसर्जनं शक्रस्तवकायोत्सर्गस्तुतिप्रभृति सर्व पूर्ववत् । ततः प्रतिष्ठितध्वजारोपश्चैत्ये । ध्वजप्रतिष्ठा तदधिकाराज्ञया । ततो नन्द्यावर्तविसर्जनं पूर्ववत् । महाचैत्यप्रतिष्ठावत् मण्डपप्रतिष्ठा । किंतु जिनस्नात्रमेकवेलमेव । देवकुलिकाप्रतिष्ठायां वेदिकरणं वेदिबलिविधानं । बृहन्नन्द्यावर्तपूजनं नास्ति किंतु लघुनन्द्यावर्तपूजनं । तस्य चायं विधिः । पूर्ववन्नन्द्यावर्तलिखनं । तहक्षिणपाचे धरणेन्द्रस्थापनं वामपाचे अम्बादेवीस्थापनं अधः श्रुतदेवीस्थापनं । उपरि गौतमगणधरस्थापनं । प्रथमवलये पञ्चपरमेष्ठिरत्नत्रयस्थापनं । द्वितीयवलये विद्यादेवीस्थापनं । तृतीयवलये शासनयक्षिणीस्थापनं । चतुर्थवलये दिक्पालस्थापनं । पञ्चमव
लये ग्रहक्षेत्रपालस्थापनं । ततो बहिश्चतुर्दिक्षु चतुर्णिकायदेवस्थापनं । एषाम् आवाहनं पूजनं सर्व पूर्ववत् । ६ इति पश्चवलयो नन्द्यावर्तविधिः । अन्यत्सर्वं चैत्यवत् । मण्डपिकाप्रतिष्ठा देवकुलिकाप्रतिष्ठावत् । कोष्ठिकादिप्रतिष्ठायां सूत्रेण रक्षाकरणं दिक्पालग्रहपूजनं वास्तुदेवतामन्त्रेण वासक्षेपः ॥ इति प्रतिष्ठाधिकारे चैत्यप्रतिष्ठाविधिः ॥२॥
अथ कलशप्रतिष्ठाविधिः ॥ ३ ॥ सचायम् । तत्र भूमिशुद्धिः पूर्ववत् । लग्नशुद्धिः प्रतिष्ठावत् । गन्धोदकैः है पुष्पैर्भूम्यधिवासनं च । तत्र पूर्वमेव आदितस्तद्भूमौ पञ्चरत्नकं कुम्भकारचक्रमृत्तिकासहितं भूम्यन्तर्निक्षि
|पेत् । तत्रोपरिकलशं स्थापयेत् । ततः सर्वजलाशयेभ्यः पवित्रस्थानाजलानयनं पूर्ववत् । ततो बृहत्वात्रविदूधिना चैत्यबिम्बे स्नात्रकरणम् । लघुपश्चवलयनन्द्यावर्तस्थापनं पूजनं पूर्ववत् । तथाच जिनबिम्बचैत्यमण्डप
**
Jain Education Internal
For Private & Personal Use Only
W
w.jainelibrary.org